________________
प्रथमः सर्गः ।
३१ निजपत्युनिरीक्ष्यांऽशं श्रीरियं श्रयते नृपम् । तमनेनाऽविवेकेन मा हारय नरोत्तम ? ॥३७८॥ उक्तं चअविज्ञातविशेषस्य सर्वतेजोऽपहारिणः। स्वामिनो निर्विवेकस्य तमसश्च किमन्तरम् ? ॥३७९॥ कुदृष्टं कुश्रुतं चाऽपि कुज्ञातं कुपरीक्षितम् । कृत्वा कार्य पुरा देव ! बहवः प्रापुरापदम् ॥३८०॥ सहसाकारिणं सद्यो मुश्चन्ति सुखसंपदः । इत्यर्थे श्रूयतां देव ! जयराजो निदर्शनम् ॥३८१॥ तथाहिअस्ति विन्ध्याचलासन्नभूमिभागे महाटवी । अधृष्या हरि-भल्लूक-शार्दूल-सरभादिभिः ॥३८२।। अभिगम्या च हिन्ताल-सरलाऽ-ञ्जन चन्दनैः । आम्र-जम्बू-प्रियालाद्यैर्वकुला-ऽशोक-चम्पकैः ॥ ३८३ ॥ तस्यामुत्सङ्गविस्तीर्णो नानालीनविहङ्गमः। वटवृक्षोऽस्ति तत्रैकं युग्मं वसति कीरयोः ॥ ३८४॥ तयोर्नितिसारेण सुखेन समयं सदा । सस्नेहं निर्गमयतोः शुकापत्यमजायत ॥३८५॥ पित्रोः पक्षाऽनिलस्वेदचूर्णिदानादिना क्रमात् । वर्धमानो बभूवाऽसौ किश्चिदुद्भिनपक्षतिः ॥३८६॥ अन्यदा बालचापल्यादुड्डीय गमनोत्सुकः। कियद् दूरं गतो मार्गाऽन्तराले सहसाऽपतत् ॥३८७॥ श्रान्तो व्यात्तमुखो बिभ्यत् सलिलायाऽऽगतेन सः । दृष्ट्वा तपस्विनैकेन गृहीतः कृपया करे ॥३८८॥ वीजयित्वा वल्कलेन पाययित्वा कमण्डलोः । . जलमाश्चास्य निन्येऽसौ तापसेन निजाऽऽश्रमम् ॥३८९॥ पुत्रवत् पोषितः स्वादुनीवारफलवारिभिः। ....