SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेसंभूय मुनिभिश्चक्रे शुकराज इति प्रथा ॥३९०॥ सल्लक्षणधरो ज्ञात्वाऽऽदेशात् कुलपतेः शुकः । पाठितः शिक्षितश्चासौ तापसहष्टमानसैः ॥३९१।। पितरावपि तन्मोहाद् तत्रैवाऽऽगत्य तस्थतुः । अन्यदा निजशिष्याणां पुरः कुलपति गौ ॥३९२॥ द्वीपो वारिनिधेमध्ये हरिमेलाऽभिधो वरः । तिष्ठतीशानकोणेऽत्य सहकारो महाद्रुमः ॥३९३॥ देव-दानव-गन्धर्व किन्नर-व्योमचारिणाम् । मिथुनैः सेवितच्छायः सुधासिक्तः सदाफलः॥३९४॥ (युग्मम् ) देवाऽनुभावात् तस्योपजीवति स्वादु यः फलम् । दोषरोगजरामुक्तः स्फुटं स्यात् स पुनर्नवः ॥३९५।। शुकोऽपीदं वचः श्रुत्वा दध्यौ हृष्टमना भृशम् । ध्रुवं मदर्थमेवेदं व्याख्यानं विदधे गुरुः ॥३९६।। दृष्टिभ्रष्टौ जराजीर्णौ यद् मातापितरौ मम । तदाम्रफलदानेन किंचित् स्यामऽनृणस्तयोः ॥३९७॥ किं तेन जातु जातेन पृथिवीभारकारिणा । आस्तामऽन्यस्य पित्रोरप्याशां पूरयते न यः ॥३९८॥ स पुत्रो यः पितुर्मातुर्भूरिभक्तिसुधारसैः । निर्वापयति संतापं शेषस्तत्कृमिकीटकः ॥ ३९९ ॥ उक्तं च कुलपतिनामातृपित्रोरऽभरकः क्रियामुद्दिश्य याचकः । मृतशय्याप्रतिग्राही न भूयः पुरुषो भवेत् ॥ ४००॥ वरं वृक्षोऽपि सिक्तोऽसौ यस्य विश्रम्यते तले । सचेतनोऽपि नो पुत्रो यः पित्रोः क्लेशकारकः ॥४०१॥ १ अपोषकः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy