________________
प्रथमः सर्गः ।
उच्यन्ते दुष्प्रतीकारा यद्यप्यम्बा पिता गुरुः । नरैस्तथाऽपि यत् शक्यं कृत्यं तेषां पदाऽर्चनम् ||४०२|| पूज्यपूजनबीजोत्थः स्फुटं भाग्यद्रुमो नृणाम् । तदभक्तिसलिलैः सिक्तः सदा सौख्यैः फलत्यलम् ४०३ इति ध्यात्वा शुकः कीराssवापृच्छ्योड्डीय सत्वरम् । art वार्ध्यन्तरद्वीपं तमेवाssस्रं ददर्श च ॥ ४०४ ॥ प्रतिश्चारु फलं चञ्चुपुटेनाऽऽदाय तस्य सः । व्यावृत्य गगने गच्छन् शुकः श्रान्तोऽभवद् भृशम् ||४०५|| अशक्तः स्वां तनुं धर्तुं पपात सहसाऽम्बुधौ । नाऽमुचत् चञ्चुतस्त्वाम्रं चिन्तातत्त्वं सुधीरिव ||४०६ || अत्राऽन्तरे सागराख्यसार्थेशेन महापुरात् । यानेन गच्छता दृष्टो व्याकुलः स जले ब्रुडन् ||४०७॥ अरे ! गृह्णातु गृह्णातु कोऽप्येनमिति संभ्रमात् । उदिते सागरेणैकस्तारकः स्वं जलेऽक्षिपत् ॥ ४०८ ॥ गत्वाऽन्तिके शुकं धृत्वा सागरस्य स चाऽऽर्पयत् । सागरोsपि करे धृत्वा शुकमाश्वासयच्चिरम् ||४०९ ॥ शुकोऽपि लब्धचैतन्यः सागरं प्रत्यभाषत । उपकारिशिरोरत्न ! सार्थवाह ! चिरं जय ॥ ४१० ॥ न केवलं त्वयैकोऽहं जीवितः सार्थनायक ! । मम पित्रोऽरपि प्राणा दत्ता जीर्णाऽन्धयोर्ध्रुवम् ॥ ४११ ॥ सूर्याचन्द्रमसौ व्योम्न्नः द्वौ नरौ भूषणं भुवः । उपकारे मतिर्यस्य यश्च तं न विलुम्पति ॥ ४९२ ॥ उक्तं च
,
३३
परकार्याय पर्याप्तं वरं भस्म वरं तृणम् । परोपकृतिमाधातुमक्षमो न पुनः पुमान् ।। ४१३ ॥ किमपि प्रार्थये तत् त्वां प्रार्थनायोग्य ! सत्तम ! | यद् योग्यं प्रार्थयस्वेति सागरोक्ते शुको तुषत् ।। ४१४ ॥
५