________________
श्रीपार्श्वनाथचरितेवृत्तान्तं सर्वमाख्याय तत्फलं दातुमुद्यतः। सागरेणोदितः कीरस्त्वत्पित्रोहन्त ! का गतिः १ ॥४१५॥ सोऽप्याह गतभारत्वात् तत्र गत्वा पुनः फलम् । पूर्व भुक्त्वा स्वयं पित्रोर्योग्यं नेष्यामि निश्चितम् ॥४१६॥ ततस्तत्मार्थनाभङ्गं सागरः कर्तुमक्षमः ।। जग्राहाऽऽम्रफलं कीरात् सोऽपि तुष्टः खमुद्ययौ ॥ ४१७॥ सागरोऽपि शुकं ध्यायन् चूतं यत्नेन धारयन् । क्रमाद् जयपुरं प्राप्तः स्वस्थित्याऽवासयद् बहिः ॥४१८॥ अचिन्तयच्च यदहो ! पक्षिणोऽपीदृशी मतिः । उपकर्तुं तदा मर्त्य भवे किं कृतऽमन्यकत् ॥४१९।। तत् किं कुक्षिभरित्वेन ममैतत्फलभक्षणात् । तथा कुर्वे यथा विश्वविश्वस्योपकृतिर्भवेत् ? ॥ ४२० ॥ यतःतुन्दस्य भरणे नीचास्तुष्टाः, स्वीयस्य मध्यमाः । उत्तमा भुवनस्यापि सतां स्वपरता न हि ॥४२१॥ स च सर्वोपकारोऽत्र न हि विश्वाधिपं विना । तदत्र राज्ञो दास्येऽदो हृदीदं निश्चिकाय सः ॥४२२॥ न्यस्य मुक्ताभृतस्थालोपरिचूतफलं क्षणे । तदुपायनमादाय जगाम नृपधाम सः ॥४२३॥ आस्थाने नृपमऽद्राक्षीत् प्रतीहारनिवेदितः। मुक्तास्थालं पुरो मुक्त्वा साष्टाङ्गं पणनाम च ॥४२४॥ तस्मिन् यथासनासीन चूतं मुक्ताफलोपरि । भूपालो वीक्ष्य विस्मेरमुखः पप्रच्छ सादरम् ॥४२५।। सार्थेश ! किमियानः फलमात्रस्य दृश्यते । कथं कदापि नो दृष्टः सहकारतरुस्त्वया ॥४२६॥ तत्प्रभावादिकं सवे कथयामास सागरः।
१ अन्यत् ।