________________
प्रथमः सर्गः ।
अतिप्रीतो नृपस्तस्य सन्मानं बह्वकारयत् ॥ ४२७॥ आकार्याssरामिकं स्वीयं शिक्षयित्वाऽतियत्नतः । रोपणाद्राजा तदाऽऽम्रं सह यामिकैः ||४२८|| सोsपि गत्वा शुभस्थाने विधिना परिकर्मवित् । सिञ्चते रोपयित्वाssव्रं सदाऽऽत्मानमिवाऽऽत्मवित् ।। ४२९ ।। क्रमेणाकुरमुनिं श्रुत्वा नृपतिरुत्सवम् ।
S
३५
सुदा तत्र सुपुत्रस्य जन्मेवाऽकारयत्तराम् ॥४३०॥ भक्तवस्त्रादिसत्कारैस्तोषयामास पूर्जनान् । विशेषेण तदेकाग्रचित्ताऽऽरामिकयामिकान् ॥४३१ ॥ स्वयं याति नृपो द्रष्टुं पल्लवे पल्लवेऽनिशम् । वर्धमाने प्रवर्धन्ते राज्ञो हृदि मनोरथाः || ४३२ | कन्दलस्कन्धशाखासु वर्ण्यमानासु भूपतिः । तन्न यन्नेप्सितं दत्ते शक्रंमन्यो मुदा हृदि || ४३३ ॥ एवं सर्वाङ्गरम्यस्य सौभाग्यस्येव मञ्जरी । प्रादुर्बभूव चूतस्य तस्य विश्वदृशां सुधा ||४३४ || फलैश्वाऽलङ्कृतो भूरिभाग्यस्याऽऽरम्भवत् तरुः । मन्यते स्म जनं राजा गतरोगजरापदम् ।। ४३५ ॥ अथैकस्य पपाताऽऽम्रफलस्योपरि पुष्करे । व्रजत् कुन्तिकात्तस्य सर्पस्य गरलं मुखात् ||४३६ ॥ सद्यः पकं च तत् तेन गलित्वा चाऽपतद् भुवि । तद् नीत्वाऽऽरामिकस्तुष्यन् राज्ञोऽद्भुतमढौकयत् ॥४३७॥ प्रसाददानं कृत्वाऽस्य नृपो निजपुरोधसे । आद्यमिष्टेऽस्त्विति ध्यात्वा ददावा सगौरवम् ॥ ४३८ ॥ सोsपि गत्वा निजावासे कृत्वा देवार्चनं मुदा । तदात्रं भक्षयामास सहसा च विपन्नवान् ||४३९|| शोककोलाहले तत्र जाते ज्ञात्वा नराधिपः ।
१ गगने ।