________________
श्रीपार्श्वनाथचरितेकिमेतदिति संभ्रान्तचित्तः श्याममुखोऽभवत् ॥४४०॥ दधौ च हन्त ! केनाऽपि वैरिणा वणिजः करात् । स्फुटं विषफलं मेऽदो दापितं हा ! करोमि किम् ? ॥४४१॥ सोऽथ पशुधरान् सर्वान् आदिदेश क्रुधा ज्वलन् । अरे ! छेद्यस्तथाऽऽम्रोऽयं यथा नामाऽपि नो भवेत्॥४४२॥ तैः कुठारकरैः शीघ्रं गत्वाऽसौ तत्र शत्रुवत् । हारावपरलोकानां छिन्नः सह मनोरथैः ॥४४३॥ तद् ज्ञात्वा जीवितोद्विग्नैः कुष्टिपङ्ग्वन्धलादिभिः । गत्वाऽस्य फलपत्राद्यं भक्षितं सुखमृत्यवे ।।४४४॥ क्षणेन तत्पभावात् ते भूत्वा मन्मथसंनिभाः । उपतस्थुनृपं तुष्टास्तवृत्तं च न्यवेदयन् ॥४४५॥ विस्मितोऽथ नृपो दध्याऽवहो ! किमिदमद्भुतम् ! । ध्रुवं सत्यं वचः तस्य सार्थेशस्य महात्मनः ॥४४६॥ केनाऽपि कारणेनाऽभूदिदं विषमयं फलम् । इत्याऽऽरामिकमाकार्याप्राक्षीत् शपथमपूर्वकम् ॥४४७॥ वद भोः ! यदिहाऽऽनिन्ये तदानं किं त्वया द्रुमात् । जगृहे भूमिभागाद् वा स ऊचे देव ! भूतलात् ? ॥४४८॥ अचिन्तयद् नृपो नूनं कुतोऽप्यहिविषादिदम् । तापेन सहसा पकं गलित्वा भूतलेऽपतत् ॥४४९।। प्रैषीच पुरुषान् वेगादाम्रशेषस्य रक्षितुम् । तैर्गत्वा वीक्ष्य चागत्य विज्ञप्तं श्रूयतां विभो ! ॥४५०॥ विषवृक्ष इति श्रुत्वा संभूय स तथा जनैः । चूर्णीकृतो यथा तस्य न स्थानमऽपि लक्ष्यते ॥४५१॥ तद् निशम्य नृपः सास्रं विललाप महार्तिभाक् । हा! मया मन्दभाग्येन विहितं विश्ववैशसम् ॥४५२॥ विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुं न युज्यते । १ हाशब्दं कुर्वतां लोकानां पश्यतामित्यर्थः । २ विश्वहानिः ।