________________
प्रथमः सर्गः ।
३७
पीयूषवृक्षः किं त्वेष धिग् ममाऽचिन्त्यकारितम् ||४५३ || इत्येवं जीवितं यावत् पश्चात्तापाऽनलेन सः । मानोऽनिशं तस्थौ राज्यसौख्यपराङ्मुखः ॥४५४ ॥ तदेवं त्वमपि स्वामिन् ! सम्यग् हृदि विभावय । विमृश्य विहितं कार्यं कदाऽप्येति न विक्रियाम् ||४५५|| समस्तगुणसंपूर्णे ललिताङ्गेऽपि तत् त्वया । अपरीक्ष्य समारेभे संरम्भः कथमीदृशः ? ॥४५६ ॥ ततो यद्याssदिशेद् देवः कुमारस्याऽन्तिकं तदा । गत्वा जानीमहे सम्यक् सर्वं तस्य कुलादिकम् ||४५७|| अमात्य ! साधु साध्वेतत् कुरुष्वेति नृपोदिते । तदमाक्षीदुपागत्य मन्त्रिवर्गो नृपात्मजे ||४५८॥ कुमारः प्राह मन्त्रीश ! जात्यादिकथको मम । हतोऽसौ सज्जनः स्वं तत् कथयामि कथं स्वयम् ? ॥४५९ ॥ मन्त्र्यूचे सज्जनेनैव पापिना जातिदोषजम् ।
तवैवं रिष्टमानिन्ये तत् त्वं तत्त्वं निवेदय ||४६०॥ तन्निशम्य कुमारोऽपि ज्ञातकारणधीरधीः । स्वकीयं पुरपित्रादि यथातथमचीकथत् ॥ ४६१ ॥ शशंसुर्मन्त्रिणो राज्ञे तन्निशम्य नृपोऽभवत् । समं हर्ष - विषादाभ्यां संकीर्णहृदयः क्षणम् ||४६२॥ प्राहिणोच्च नरानाप्तानाऽऽशु गत्वाऽथ तत्र ते । श्रीवास नगरेशाय तत्स्वरूपं न्यवेदयन् ॥४६३॥ सहसा वचसा तेन भेकवज्जलदाम्भसा । स प्रत्युज्जीवित इवाऽभूद् नृपो नरवाहनः ||४६४॥ हर्षेण च जगादाऽथ ममाsहो ! कोऽपि संप्रति । जितशत्रुमो बन्धुर्न परो भुवनत्रये ||४६५ || अतित्यागभवाssस्मांकतिरस्काराऽपमानितः ।
१ आस्माकः अस्मदीयः ।