________________
३८
श्रीपार्श्वनाथचरितेहंसः सर इव स्थानं मुक्त्वा देशान्तरं भ्रमन् ॥४६६॥ येन जीवितसर्वस्वं मम विश्वजनस्य च । स्थापितो ललिताङ्गोऽसौ पोषितश्चात्मसनिधौ ॥ ४६७ ॥ किश्च भोः पुरुषाः ! वाच्यः स्वस्वामी वचसा मम । स्नेहसारं यथा शीघ्र कुमारः प्रेष्यतामिह ॥ ४६८ ॥ कलशो ह्यस्मद्वंशस्य त्वदीयसुकृतस्य च । चटतादिति संभाष्य सन्मान्य च महादरात् ॥४६९॥ स्वप्रधाननरैः सार्द्ध विशिष्टप्राभृतान्वितैः । विससर्ज पुरे गत्वा सर्व राज्ञो न्यवेदयत् ॥ ४७० ॥ तत् श्रुत्वा जितशत्रुः स्वाऽज्ञानदोषार्दितो हृदि । अचिन्तयदिदं मे धिग् महामोहविजृम्भितम् ॥ ४७१ ॥ इत्थं दुष्कीर्ति-पापाभ्यां जिघांसति भवद्वयम् । यस्तमेवाऽऽन्तरं शत्रु मोहराजं विनिर्जये ॥४७२॥ इति निश्चित्य दीनाऽऽस्यामङ्कमारोप्य पुत्रिकाम् । गलदश्रुजला क्षो जगादेति सगद्गदम् ॥ ४७३ ॥ वत्से ! यद् जीवितव्यादऽप्यधिकायां मया त्वयि । अचिन्ति गुरुवैधव्यदुःखमित्यसमञ्जसम् ॥४७४॥ विधित्सितं समस्तं तत् क्षन्तव्यं दुष्पितुर्मम । त्वत्तेजसा मुखोद्योतो बभूव कुलदीपिके ! ॥४७५॥ चिरं जीव समं भर्चा परिपूर्णमनोरथा । साऽप्येवं वत्सलं तातं ननाम प्रहमानसा ॥४७६॥ अथाऽऽहूय कुमारेन्द्रं प्रणामनतविग्रहम् । ऊ/कृत्य नृपो दोभ्या सलज्जवदनोऽवदत् ॥४७७॥ कुमार ! मयका पुत्रनिर्विशेषेऽपि यत् त्वयि । दुर्जनाऽहिवचस्तीवविषविह्वलचेतसा ॥४७८॥ विरुद्धमिदमारेभे तत्पतीकारकर्मणि । तवैव सुकृतस्फूर्तिर्जागर्ति परमौषधी ॥४७९॥