________________
प्रथमः सर्गः ।
यत तेन पापिनाऽलीकं त्वच्चित्ते मनसश्च मे । मालिन्यमाहितं तत्तु तस्यैव फलितं क्षणात् ॥ ४८० ॥ अग्राह्यनामधेयस्य तस्य भृत्याऽधमस्य तत् । विचिन्त्य चरितं भूयः कुसंगं वत्स ! मा कृथाः ॥४८१ ॥ किं चाऽर्धमऽस्य राज्यस्य गुणैरेवाऽर्जितं त्वया । शेष मर्ध च ते दत्तं प्रायश्चित्ते मया निजे ||४८२|| इति संबोध्य तं गाढमनिच्छन्तमपि स्वयम् । निजसिंहासनाssसीनं विधाय विधिपूर्वकम् ॥ ४८३ ॥ मन्त्रपूतजलाऽऽपूर्ण स्वर्णकुम्भाऽभिषेकतः । नृपं कृत्वा ययौ राजा तपस्यायै तपोवनम् ||४८४ ॥ ललिताङ्गोऽपि तद् राज्यं प्राप्य कुर्वन् व्यवस्थया । जातः पितेव लोकानां सुखाय सुकृताय च ॥४८५ ॥ अथ तत्र समादिश्य मन्त्रिणं सुपरीक्षितम् । प्रधानपरिवारेण समं पुष्पावतीयुतः || ४८६ ॥ पौरानापृच्छ्य सोत्कण्ठस्त्वरिताऽऽकारणात् पितुः । स प्रयाणैरविछिन्नैः श्रीवासनगरं ययौ ॥ ४८७ ॥ अद्राक्षीद् निर्विलम्बं च सौधमध्यस्थितं नृपम् । पुत्र विश्लेषसप्तार्चिस्तापग्लपितविग्रहम् ||४८८|| गलनेत्रजलैस्तापं पितुर्विध्यापयन्निव । प्रणम्य चरणौ मूर्ध्ना ललाटघटिताञ्जलिः ||४८९॥ सस्नेहमधुरं सान्द्रं सानन्दं विनयान्वितम् । भक्तिव्यक्तीकृतात्मीयकुलीनत्वो व्यजिज्ञपत् ॥ ४९०॥ ( युग्मम् ) कथ्यन्ते तात ! शास्त्रेषु नन्दनाः कुलदीपकाः । कुपुत्रेण तु पूज्यानां कृतं दुःखतमो मया ॥ ४९१ ॥ मुक्तामणिनिभा वंशे पुत्राः स्युरितरे पितः ! |
१ दुःखान्धकारः ।
३९