________________
४०
श्री पार्श्वनाथचरिते
उत्किरंस्तु प्रविश्याऽन्तरऽहं घुण इवाभवम् ||४९२॥ पितृपादान् सुदुर्लम्भान् निरन्तरमपश्यता । हा ! मया मन्दभाग्येन स्वार्थ एव विनाशितः ॥४९३ ॥ किं वाऽथ बहुना तात ! बालकालादवर्त्तिषम् । अद्य यावदहं पित्रोः क्लेशकार्येव केवलम् ||४९४ ॥ तत् सर्वं क्षमयित्वैतत् ढौकनीये कृतं मया । कस्याऽप्यादिश्यतां चम्पाराज्यं पूज्यैः प्रसद्य मे || ४९५|| इतः कुलवधूचैषा पूज्यपादान् नमस्यति । यथोचितसमाचारेष्वऽनुज्ञां चाऽभिवाञ्छति ||४९६|| वदन्तमिति तं दोर्भ्यामादाय पृथुवक्षसा । दृढमालिङ्ग्य भूपालो मुखेनाऽऽघ्राय मूर्धनि || ४९७॥ चिरेण निःसरदुःखप्रविशद्धर्षपूरतः । बभूव हृदि सांकय्यात् पर्याकुल इव क्षणम् ||४९८ || ( युग्मम् )
अथ पुत्रमुखं वीक्ष्य पूर्णचन्द्रसमं नृपः । उल्लसन्मानसाऽम्भोधिर्वचोवीचीर्वितेनिवान् ॥४९९ ॥ त्वं मैवं वत्स ! भाषिष्ठाः सुवर्णे श्यामता यदि । जायते तत् तवापि स्याद् गुरुष्ववहुमानिता ।। ५०० ॥ स्वपुण्यस्येव मूर्त्तस्य द्वारं वारयता तव । तदा मयैव कल्पद्रौ कुकूलक्षेपणं कृतम् ॥ ५०१ ॥ यदि मे वृद्धभावेन परावृत्तिं गता मतिः । ततः पित्रेकभक्तेन किमऽहं मुमुचे त्वया ? ॥ ५०२ ॥ त्वद्वियोगार्त्तिलूनस्य यावस्था मनसो मम ।
बभूव वत्स ! सा भूयः शत्रूणामपि मा स्म भूत् ॥ ५०३॥ महते राज्यलोभाय तव देशान्तरोऽप्यऽभूत् । त्वदेकजीवितव्यस्य दुर्दशेयं पुनर्मम ॥ ५०४ ॥
१ तुषाग्निक्षेपः ।