________________
प्रथमः सर्गः। किं च कृत्रिमरोषेण तवैवाऽऽयतिमुत्तमाम् । विधित्सता मया तादृक् कृतं लोके यदुच्यते ॥ ५०५ ।। पितृभिस्ताडितः पुत्रः शिष्यस्तु गुरुशिक्षितः । घनाहतं सुवर्ण च जायते जनमण्डनम् ॥ ५०६ ॥ अथवाऽलमुपालम्भैः शुभायाऽखिलमप्यऽभूत् । ईदृक् स्वपुत्रमाहात्म्यं पश्यामि कथमन्यथा ? ॥५०७॥ ललिताङ्ग ! तदऽद्यापि मम भाग्यानि जाग्रति । अनभ्रष्टिवद् दृष्टो यदद्य सहसा भवान् ॥ ५०८ ।। इदं राज्यमिदं गेहमयं परिजनो जनः । सर्वमङ्गीकुरुष्वेदं योग्यस्त्वत्तो हि नाऽपरः ॥ ५०९ ॥ अस्याश्च वध्वास्तत् तादृक् कुलमेवोपदेशकम् । यत् कर्त्तव्यविधौ पाणिगृहीत्यस्तेि विशेषतः ॥ ५१० ॥ विधिसृष्टाऽनुसारेण सततं पालय प्रजाः । वत्स ! त्वं हरिवल्लक्ष्म्या राजपुच्या युतो भुवि ॥५११।। अहं तु पूर्वजाऽऽचीर्ण व्रतं सुगुरुसंनिधौ । त्वय्याऽऽरोपितभारत्वाद् निश्चिन्तमतिराश्रये ॥ ५१२ ॥ ललिताङ्गो वचः श्रुत्वा पितुर्विरहसूचकम् । सदैन्यमवदद् देव ! किं मया दुष्कृतं कृतम् ? ॥ ५१३ ॥ यदेतावन्ति मे तात ! दिनानि विफलान्यगुः। . दुरेण गुरुपादानां तदद्य यदि कर्मणा ॥ ५१४ ॥ दत्तेऽन्तरे मया तातो हृष्टस्तत् तेन किं पुनः ?। वर्षारविरिवाऽभ्रेण ममाऽदृष्टीकरिष्यति ॥ ५१५ ॥ पुन व समादेश्यमऽश्रोतव्यमिदं विभो । कस्याऽपि दिवसो मा गात् सतः पूज्यानपश्यतः ॥५१६॥ तात ! किं तेन राज्येन जीवितेन दिनोदये । प्रसन्नं नेष्यते यत्र पितृपादाम्बुजद्वयम् ? ॥ ५१७ ॥ १ वध्वाः ।