________________
प्रथमः सर्गः ।
कार्यसिद्धौं प्रशस्येत वक्रतैव तयोः पुनः || ३५१ ॥ अन्यच्चित्तेऽन्यथा वाचि कर्त्तव्यं त्वन्यदेव हि । गणिकाक्रमवन्नाथ ! राजधर्मोऽप्यनेकधा ।। ३५२ ।। विश्वासोऽत्र न कर्त्तव्यस्तन्नरेण विजानता । नीतौ किं न श्रुतं राजा मित्रं कस्याऽपि नो भवेत् १ ॥ ३५३ ॥ अकारणप्रसादोऽपि प्रस्तावं न विना शुभः । अरिष्टाय तरोः पुष्पोद्भेदोऽप्यसमये भुवि || ३५४॥ यथा दाहभयाद् देव ! धियते दारुहस्तकः । फलकं घातरक्षार्थं प्रस्तावार्थे तथाऽनुगः ॥ ३५५॥ आस्ते समस्त कृत्येषु प्रधानस्तव सज्जनः । स एव प्रेष्यतां ज्ञात्वा कार्यं कुर्याद् यथोचितम् ॥ ३५६॥ दयितायाः स तादृक्षमिक्षुरम्भाफलोपमम् |
वचः श्रुत्वा परं तोषाऽऽपूरितो ऽचिन्तयत् || ३५७॥ कुलव्रतधरा नारी नरस्य यदि जायते । तदा सैव गुरुर्लक्ष्मीः शास्त्रं मित्रं मतिः सखा ।। ३५८ ।। अहो ! केयं मतिप्रौढिरस्याः कीदृक वचः क्रमः । पक्षपातः सरस्वत्याः स्त्रीजातित्वादियं ध्रुवम् ॥ ३५९ ॥ प्रहितः सज्जनवाथ व्रजन् सौधाऽन्तराऽध्वना । तत्रस्थपुरुषैः तीक्ष्णखड्गघातैर्दृढं हतः ॥ ३६० ॥
२९
अपतच्च हताशत्वादऽसावुभयथाऽप्यधः । सत्यमाभाणको जातः स्वस्य स्याच्चिन्तितं परे ।। ३६१ ॥ श्रुत्वा कलकलं तत्र ज्ञात्वा च नृपपुत्रिका । पूरिता शोक- हर्षाभ्यां जगादेति सगगदम् || ३६२ | हा ! नाथ ! सरलखच्छमकृते ! कथितं यदि । नाsकरिष्यः तदाऽवस्था काऽभविष्यन्ममाऽधुना १ ।। ३६३ ॥ आर्यपुत्र ! तदद्यापि मुक्त्वा गजनिमीलिकाम् । भूत्वा स्वसैन्यसन्नद्धो बहिस्तिष्ठ पुरादरम् ।। ३६४ ॥