________________
श्रीपार्श्वनाथचरितेआज्ञां दत्त्वा विशेषेण संमान्य स्थापितोऽन्तिके ॥३३८॥ नितान्तममुना कर्णविषेण व्याकुलीकृतः । नृपो दध्यौ हहा ! कीदृक् संजातमसमञ्जसम् ॥३३९॥ पणबद्धामसौ कन्यां बाढं गृह्णातु, मेऽखिलम् । यत्पुनर्मलिनीचक्रे राज्यं दुःखाकरोति तत् ॥३४०॥ तदेनं निग्रहीष्यामि पापमित्यात्तनिश्चयः । आह्वास्त स रहो भृत्यान् यत् कृत्यादेशकारिणः ॥३४१।। आदिशच य एकाकी निशि सौधाऽन्तराऽध्वना। एति वध्यः स युष्माभिर्निर्विचारमुदायुधैः ॥३४२।। देवाऽऽदेशः प्रमाणं मे इति व्याहृत्य ते नराः । ततो गत्वाऽभूवन राज्ञो निदेशकरणोद्यताः ॥३४३॥ अथ वर्षसमं नीत्वा दिनं राजा महानिशि । शिक्षयित्वा नरं प्रेषीत् कुमारऽऽह्वानहेतवे ॥३४४॥ सोऽपि गत्वाऽवदद् देव ! नृदेवस्त्वां दिदृक्षते । कायॊत्सुक्यात् ततो मध्यमार्गेणैव समेयताम् ॥३४५॥ खड्गमादाय पल्यङ्कादुत्थाय सहसाऽचलत् । कुमारः प्रिययाऽभाणि करे धृत्वा पटाऽञ्चलम् ।।३४६॥ देव ! मुग्धस्वभावोऽसि राजनीति न वीक्षसे । इयत्यामविचार्येव यदेवं चलितो निशि ॥३४७।। एतदेव कुलीनानां जीवितव्यं प्रिये ! नृणाम् । । निर्विकल्पं परीक्ष्याऽऽज्ञां यदादेशो विधीयते ॥३४८॥ विकल्पेन पुनस्तस्मिन् भक्तिव्याजाद् विडम्बना । इति शिष्टे कुमारेण राजपुत्री पुनर्जगौ । ३४९।। सत्यमेतत् परं कापि विकल्पोऽप्युचितः प्रिय !।। जैनदर्शनवन्नैव सिद्धिरेकान्तपक्षतः ॥३५०॥ ऋजुता धन्व-गुणयोरस्तु वस्तुस्वरूपतः । १ लैंग् स्पर्धाशब्दयोः । २ स्वामित्यर्थः ।