________________
प्रथमः सर्गः। परमार्यस्वभावस्य कर्त्तव्यमिति न स्थितम् ॥३२५।। महतामप्यहो ! दैवाद् दुर्वारा नीचसंगतिः ।... कर्पूरस्य कथं न स्यादगारेण समं रतिः ? ॥३२६॥ स्वस्वास्थित्या ततः काले कियत्यपि गतेऽन्यदा। पप्रच्छ वसुधाऽधीशः प्रच्छन्नमिति सज्जनम् ॥३२७॥ कः संबन्धः कुमारस्य त्वय्येवं यत् तदादरः । कुद्रव्यजीवदोषेण सोऽपि चिन्तितवानिदम् ॥३२८॥ स्मृत्वा पूर्वविकारं मे कुमारोऽनर्थहेतवे । .. काऽपि भावी, विपद्येनं तदादावेव पातये ॥३२९॥ पापः स्वपोषकस्याऽपि संपदा हृदि खिद्यते । हरिताद्री भुवं पृष्ठे यथा दृष्ट्वा खरश्चरन् ॥३३०॥ जगाद च त्वया देव ! भूयः कथितसुन्दरम् । न पृष्टव्यमिदं राजा सुतरामादृतस्ततः ॥३३१॥ ददौ शपथमूचेऽसाऽवहो ! संकटमागतम् । निषेधाज्ञा कुमारस्य कथनाज्ञा महीपतेः ॥३३२॥ कुमारस्याऽपि पूज्यस्य दुर्लध्याऽऽज्ञाऽथवा तव । तेनैष कथयनस्मि शृणु देव ! यथातथम् ।।३३३॥ श्रीवासनगराधीशनरवाहननन्दनः। . अहं देव ! महीयस्यकौरिकस्य सुतस्त्वयम् ॥३३४॥ प्रकृत्या रूपवानाऽऽप्तविद्यालाभः कुतोऽपि हि । खजातिलज्जया गेहं त्यक्त्वा देशान्तरं भ्रमन् ॥३३५॥ अत्राऽऽयातस्तदूर्व तु प्राच्यभाग्यवशादभूत् । यत् किञ्चिदिह तत्सर्वं तवैव विदितं विभो ! ॥३३६।।
(युग्मम् ) पितुः परिभवादत्राऽऽयातोऽहमपि पर्यटन् । दृष्टोपलक्षितस्तेन मर्मज्ञ इति संभ्रमात् ॥३३७॥ पुरस्त्वरितमाकार्य मा मामुद्घाटयेरिति ।