________________
तृतीयः सर्गः ।
१७५
आरभ्य ब्रह्मचारी चेद् मार्ग देहि तदा द्रुतम् ॥ २६१ ॥ तत् श्रुत्वा विस्मिता राशी दध्यौ किमिदमीदृशम् । असम्बद्धं नृपो ब्रूते पञ्चमो लोकपालकः ॥ २६२ ॥ भ्रातृदिनादूर्ध्वमस्य यत् पुत्रसन्ततिः । बभूव मयि तत् सर्वं विदितं मे पतिव्रतम् ॥ २६३ ॥ 1. अथवा किं विकल्पेन निकटः प्रत्ययोऽधुना ? | अन्यच्च निर्विकल्पाः स्युः पतिवाक्ये पतिव्रताः ॥ २६४ ॥
यतः --
सती पत्युः प्रभोः पत्तिर्गुरोः शिष्यः पितुः सुतः । आदेशे संशयं कुर्वन् खण्डयत्यात्मनो व्रतम् ॥ २६५ ॥ इति तुष्टा गता राशी सोपस्करपरिच्छदा । नदीतीरे मिलल्लोके संकटी भूतभूतले || २६६ ॥ तत्राहूय नदीं देवीं कृतार्चा शुद्धमानसा । सा भर्तृकथितां सत्यश्रावणामकृत स्फुटम् ॥ २६७ ॥ नदी च सहसा वामदक्षिणक्षिप्तवारिभिः । स्ताघीभूय ददौ पारं गता राज्ञी परे तटे ।। २६८ ॥ प्रणम्य विधिना तत्र धन्यंमन्या मुनिं ततः । लब्धाशीर्मुनिना पृष्टा नगुत्तारविधिं सती ।। २६९ ॥ सर्वमाख्याय वृत्तान्तं सा प्रपच्छ मुनीश्वरम् । असंभाव्या कथं भर्तुर्घटते ब्रह्मचारिता १ ।। २७० ॥ सोऽप्याह श्रूयतां भद्रे ! यदाऽहं जगृहे व्रतम् । तदारभ्य विरक्तात्मा व्रताकाङ्क्षी भृशं नृपः ॥ २७१ ॥ परं तादृग् न कोऽप्यासीद् राज्यधूर्धरणक्षमः । तेनासौ कुरुते राज्यं व्यवहारेण नो धिया ।। २७२ ॥ उक्तं च
परपुंसि रता नारी भर्तारमनुवर्तते ।
तथा तवरतो योगी संसारमनुगच्छति ॥ २७३ ॥