________________
१७४
श्रीपार्श्वनाथचरिते
सर्वभूतदया शौचं जलशौचं तु पश्चमम् ॥ २४९ ॥ स्नानं मनोमलत्यागो दानं चाभयदक्षिणा | ज्ञानं तस्वार्थ संबोधं ध्यानं निर्विषयं मनः ॥ २५० ॥ गृहेsपि वसतां नित्यमश्नतामपि श्रद्धया ।
मनः शुद्ध्या भवेद् धर्मस्तपसाऽपि न तां विना ।। २५१ ॥ उक्तं च-
मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः । बन्धने विषयासङ्ग मुक्तौ निर्विषयं पुनः ॥ २५२ ॥ तथाहि
पुरा सूरनृपः पुर्या बहिरुद्यानमागतम् । मुनिं सोदरमाकर्ण्य तत्रागात् सपरिच्छदः ॥ २५३ ॥ मुनिं प्रणम्य भावेन स्फुटरोमाञ्चभूषणः । निशम्य तन्मुखाद् धर्मं गतः स्वभवनं नृपः ॥ २५४ ॥ पट्टराश्यपि सोत्कण्ठा वन्दितुं देवरं मुनिम् । आपृच्छय नृपतिं सायं जग्राहेत्थमभिग्रहम् ।। २५५ ॥ सोमाभिधं मुनिं प्रातर्मया सपरिवारयां ।
वन्दित्वा पारयित्वा च भोक्तव्यमिति नान्यथा ॥ २५६ ॥ अथान्तराले नद्यस्ति पुरस्योपवनस्य च ।
निशीथे साथ पूरेणाऽऽगताऽगाधां वहत्यलम् ।। २५७ ।। तेनाकुलमना राज्ञी प्रभाते निजवल्लभम् । पप्रच्छ कथमद्याऽसौ पूर्यते मे मनोरथः ? ।। २५८ ॥ उवाच नृपतिर्देवि ! मा कार्षीः खेदमीदृशम् । येनेदं सुकरं सुस्था गच्छ त्वं सपरिच्छदा ।। २५९ ।। अर्वाक्तीरे नदीदेवीं समाद्दानपुरस्सरम् । योजयित्वा करौ शुद्धमानसेदं वदेर्वचः ।। २६० || हे देवि ! नदि ! भर्त्ता मे देवरवतवासरात् ।
१ अगाधा गभीरा ।
t