________________
सप्तमः सर्गः।
३७९ । रत्नस्थालस्थितान दिव्यवासान् मौलिषुन्यक्षिपत् ॥१३५५।। सद्व्य-गुण-पर्यायैरनुयोगं तथा गणम् । अन्वजानात् तथेत्युक्त्वा प्रतीषुस्तेऽपि तं नराः ॥१३५६॥
(युग्मम् ) दुन्दुभिध्वानपूर्वं तु तेषामुपरि चिक्षिपुः। वासान् सुरादयोऽप्येवं तीर्थमासीचतुर्विधम् ॥१३५७॥ उपविश्य पुनस्तेषामनुशिष्टिं विभुर्व्यधात् । पूर्णप्रथमपौरुष्यां देशनां विससर्ज च ॥ १३५८ ॥ अथोत्थायोत्तरद्वारान्निर्गत्येशानदिस्थिते । देवच्छन्दे विभुर्गत्वा विश्रामसुखमन्वभूत् ॥१३५९॥ कर्माभ्रजालविगमाद् भविनां सुदृश्यो
दृष्टिप्रसादजनने विततप्रभावः । दन्तांशुमांसलरुचाऽस्ततमा मुदं वः
पाचप्रभोः प्रथयतां मुखशारदेन्दुः ॥१३६० ॥ इति श्रीकालिकाचार्यसन्तानीय-श्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथचरिते महाकाव्येऽष्टसर्गे भावाङ्के भगवद्विवाह-दीक्षा-केवल. ज्ञान-समवसरण-देशनावर्णनो नाम षष्ठः सर्गः ॥ ६॥
अहम् । अथ सप्तमः सर्गः।
अथ पार्थप्रभोः पादपीठस्थो गणभृद् नृणाम् । आर्यदत्तो जिने भक्तिस्थैर्यार्थ देशनां व्यधात् ॥ १॥ इह सर्वोत्तमस्तावद् यतिधर्मो मनीषिणाम् । तत्राऽशक्ताः पुनर्भव्या गृहिधमं प्रकुर्वते ।। २ ॥