SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथचरिते इत्थं भावस्य माहात्म्यं विदित्वा विदुषा सदा । भाव्यं भावप्रधानेन धर्मकृत्येषु सर्वतः ।। १३४३ ।। अपि भावैकपाद् धर्मो जात्यश्व इव सद्गृहम् । कलौ नरं नयत्येव बहिर्भवरणाङ्गणात् ।। १३४४ ॥ दानादिचतुरीमध्ये चतुर्ज्ञानेटकोपरि । केवलज्योतिराश्रित्य मुक्तिस्त्रीमुद्वहेद् वरः ।। १३४५ ।। इत्यादिदेशनां श्रुत्वा प्रभोर्वदनपङ्कजात् । बहवः सर्वसावद्यविरतिं जगृहुर्जनाः ।। १३४६ ।। केsपि भव्याः पुनर्देशविरतिं प्रतिपेदिरे । प्रपन्नाः केऽपि सम्यक्त्वं केऽपि भद्रकतां ययुः || १३४७ || प्राप्याऽपि जिनरत्नाद्रिं निजभाग्यानुमानतः । किञ्चिचति कस्यापि धर्मरत्नं नृणां करे ।। १३४८ ॥ अश्वसेननृपस्याsपि धर्मः श्रीपार्श्वभाषितः । शर्करादुग्धसंयोग इवातीव स्म रोचते ।। १३४९ ॥ राज्यं दत्वा च तत्रैव हस्तिसेनाय सूनवे । भवाऽम्बुधितरीं दीक्षां मुमुक्षुर्जगृहे नृपः ॥ १३५० ॥ वामादेवी प्रभावत्यावपि माव्रजतां तदा । यद् विश्वस्याऽपि सामान्या जिनर्द्धिः किमु बन्धुषु ११३५१ आर्यदत्त आर्यघोषो वशिष्ठो ब्रह्मनामकः । ३७८ सोमव श्रीधरो वारिसेनो भद्रयशा जयः ।। १३५२ ।। विजयश्चेति गणभृन्नामकर्मभृतो दश । बभूवुर्व्रतिनस्तत्र प्रज्ञा-रूप- कुलोज्ज्वलाः ।। १३५३ ॥ ( युग्मम् ) तेषामुत्पादविगम-धौव्यरूपां पदत्रयीम् । स्वाम्याख्यत्, ते तया सद्यो द्वादशाङ्गीमसूत्रयन् ॥ १३५४ ॥ अथोत्थाय विभुस्तेषां स्वयं शक्रोपढौकितान् | १ पाणिग्रहणमण्डपः ' चोरी ' इति भाषायाम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy