________________
१३६
श्रीपार्धनाथचरितेअन्यदा देवभोगेन सोमदेवोऽपि सार्थपः। वणिज्यार्थ पुरे तस्मिन्नागत्याऽऽवासितो बहिः ॥८३६॥ गृहीत्वोपायनं श्रेष्ठं गत्वा च नृपसनिधौ । ययाचे निजसार्थस्य रक्षार्थ निशि यामिकान् ।।८३७ ॥ राज्ञादिष्टस्तलारक्षः प्रेषयंस्तानथाऽन्यदा । तावुभौ भ्रातरौ भैषीदेकस्यां दिशि रक्षितुम् ।। ८३८ ॥ तयोस्तत्रस्थयो रात्रिविनोदाय कनीयसा । ज्येष्ठः पृष्टः कयां तेन स्वमेवाऽऽख्यायि वृत्तकम् ।।८३९॥ तत्र कर्मकरी मध्यस्थिता सार्थे सहागता । प्रायेण जाग्रती दुःखात् तत्तदासनभावतः ॥ ८४०॥ श्रुत्वा समूलपर्यन्तं राज्ञी मदनवल्लभा । उद्भिद्यत्स्नेहशोकाभ्यां विहलीभूतमानसा ॥ ८४१ ॥ चिरान्मे मन्दभाग्याया हा ! वत्सौ मिलितौ युवाम् । इत्यागत्य तयोः कण्ठग्रहं कृत्वाऽरुदत्तराम् ॥ ८४२ ॥
(त्रिभिर्विशेषकम् ) तज् ज्ञात्वा कुपितः सार्थपतिश्चेटैर्हठेन ताम् । दरमुत्सार्य तौ धृत्वा भूपतेः प्रातरार्पयत् ॥ ८४३ ॥ सोपालम्भमवादीच देवाऽऽरक्षेण सुन्दरौ। यामिको प्रहितावस्मन्मर्त्यधूर्तत्वकारिणौ ॥ ८४४ ॥ नृपोऽवोचत्तलारसं काविमौ सोऽप्यचीकयत् ।। देव ! जानामि नो सम्यक् कियत्कालादिहागतौ ॥८४५॥ निरीक्षमाणस्तौ सम्यगुपलक्ष्य सुतौ नृपः । दुःखात्त्रातुमिवात्मानं रोमाचकवचं दधौ ।। ८४५ ॥ तथापि गुरुगाम्भीर्याद् विधायाकारगोपनम् । अवोचदिति साक्षेपं युवाभ्यां किमु रे ! कृतम् ? ॥८४७॥ आप्रष्टुमिव तौ दुःखभयेनाऽऽलिङ्गितौ ततः । सत्यमामाणकं जातं यतो रक्षस्ततो भयम् ॥ ८४८ ॥