SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। १३५ दधतामन्तरौज्ज्वल्यं सकारो धुरि शोभते ॥ ८२३ ॥ गच्छन् स्वल्पदिनैरेवं सुन्दरः श्रीपुराऽभिधम् । पुरं प्राप्य तदासन्नोपवनाम्रतरोरधः ॥ ८२४ ॥ खजनस्येव तस्यैव कृताहारोऽमलैः फलैः। विशश्राम श्रमायातनिद्रालब्धसुखः क्षणम् ।। ८२५ ॥ तदा तत्र पुरे राज्ञि विपन्ने पुत्रवर्जिते । हस्त्यश्वचामरच्छत्रकुम्भाख्यमधिवासितम् ॥ ८२६ ॥ पञ्चशब्दनिनादेन राजलोकपुरस्कृतम् । भ्रमत् तत्राययौ दिव्यपञ्चकं यत्र सुन्दरः ॥ ८२७ ॥ (युग्मम् ) शीलेन सुन्दरं शीघ्रमुपविष्टं विलोक्य तम् । हयेन हेषितं हस्तिपतिना द्वंहितं कृतम् ॥ ८२८ ॥ दुरितक्षालनायेवाऽपतत् कुम्भाम्बु मस्तके । उपरिष्टात् स्थितं छत्रं लुलितं चामरद्वयम् ॥ ८२९ ॥ स करीन्द्रमथाऽऽरुह्य दिव्यवेषधरो निशि । मन्त्र्यादिभिर्नतो नीत्या प्रविष्टः पुरमुत्सवैः ॥८३० ॥ विधिना कुर्वतो राज्यं तस्य भाग्यप्रभावतः । ययुः सर्वेऽपि सामन्ता अनम्रा अपि नम्रताम् ॥ ८३१ ।। निपत्य पादयोः किन्तु प्रधानैर्भणितोऽप्यसौ । निजप्रियतमादुःखाद् न मेने दारसंग्रहम् ।। ८३२ ॥ वरं कारागृहे क्षिप्तो वरं देशान्तरभ्रमी । वरं नरकसंचारी न द्विभार्यः पुनः पुमान् ॥ ८३३ ॥ अभोजनो गृहाद् याति नामोत्यम्बुच्छटामपि । अक्षालितपदः शेते भार्याययुतो नरः ॥ ८३४ ॥ अथाऽन्योन्यं वियुक्तौ तौ कुमारावत्यवस्थया । बहु भ्रान्त्वा क्रमात्तत्राऽऽगत्याऽऽरक्षान्तिके स्थितौ ॥८३५॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy