________________
१३४
श्री पार्श्वनाथचरिते
स निर्वापितसन्ताप इति सूक्तसुधारसैः । स्वसंवेद्येन योगीव खं चकार दृढं मनः ॥ ८११ ॥ लब्ध्वा परपदो दीनो हीनत्वं नैव मुञ्चति । शिरश्छेदेऽपि धरिस्तु वीरत्वं नैव मुञ्चति ।। ८१२ ॥
तथा,
न तानि फलसंपत्तौ तुङ्गानि विगते फले ।
शिखराणि महादूणां मनांसि च मनखिनाम् ।। ८१३ ।। ततो गत्वा तदासन्नग्रामे कस्यापि वेश्मनि । कौटुम्बिकस्य भिक्षार्थी प्रविष्टस्तेन वीक्षितः ।। ८१४ ॥ संभाषित स्वं भोः ! क्षत्रियोऽहमिति ब्रुवन् । गृहकर्मकरत्वेऽसौ पृष्टो भूयः कुटुम्बिना ? ।। ८१५ ॥ आमेति कथयंस्तत्र कर्मकृत्ये नियोजितः । सुन्दरो भक्तवस्त्रादिसाराकरणपूर्वकम् ॥ ८१६ ॥ विनीतत्वेन तस्याऽथ घृतभक्तादिलाभतः । बहुलोपचयात् कान्तिः प्रत्यावृत्ता तनौ क्रमात् ॥ ८१७॥ कौटुम्बिकयन्तं वीक्ष्य मदनातुरा | असतीजनयोग्यानि वचांसि बहुधाऽभ्यधात् ॥ ८१८ ॥ तच्छ्रुत्वा चकितो राजाऽचिन्तयद् ध्रुवमत्र मे ।
विधिः सुस्थानमानाद्यं शीलभङ्गाय निर्ममे ॥ ८१९ ॥ अरे दैव ! त्वदायत्तं कामं वित्तादि गच्छतु । ममायत्तं पुनर्वृत्तं हर्तु कस्याऽस्ति योग्यता १ ।। ८२० ॥ यत्किञ्चिदुत्तरं दत्त्वा ज्ञात्वा तस्या महाग्रहम् । विरुद्धा भूः परित्यज्येति कृत्वा निर्ययौ ततः ।। ८२१ ।।
यतः,
ये न स्खलन्ति ते दक्षाः कृष्णकेशतमोभरे । वार्धकेतु सदोद्योतः शिरः स्थपलितेन्दुना ।। ८२२ ॥ स्वजन स्वर्णशाकानामापत्तापच्छिदावपि ।