________________
१३३
द्वितीयः सर्गः। वैरिधाटीव दुर्दश्याऽनेकरतांक्षभीषणा ।। ७९९ ॥ किंवाऽथ बहुना बालविधवस्त्रीव या सदा । विविधश्वापदावासस्तथा शबरसंभृता ॥ ८००॥
(त्रिभिर्विशेषकम् ) कथश्चित्तामपि क्रान्त्वा यावदग्रे बजत्यसौ । आजगाम नदी तावद् दुस्तराऽऽपदिवापरा ॥ ८०१ ॥ अस्यां नः स्यात्समुत्तारः कथमेवं वितर्कयन् । लब्धोपायः सुतं स्कन्धं कृत्वोत्तार्य परे तटे ॥ ८०२ ॥ मुमोचैकं द्वितीयं त्वानेतुं भूयोऽविशद् नदीम् । अन्तराले गतस्तावदतिपूरेण पातितः ॥ ८०३ ॥ कुर्वन्नितस्ततो बाहू प्राप्तकाष्ठकखण्डकः । पञ्चरात्रेण तत्तीरमाससाद विषादभाक् ॥ ८०४ ॥ दध्यौ चेति हताशस्य ही विपाकः कथं विधेः । क तन्मे मुदितं राज्यं कैषाऽनर्थपरम्परा ? ॥ ८०५ ॥ राज्यभ्रंशेऽपि चेदैव ! कृतं कान्तावियोजनम् । ततः किं जीवितः, किंवा ज्ञातं पुत्रार्तिमीक्षितुम् ॥८०६॥ ध्रुवं दुष्कृतिनां दैवो दत्ते दुःखाय जीवितम् । कृमिरागकृतां देशे मानामिव पोषणम् ॥ ८०७ ॥ अथवा, कस्य वक्तव्यता नास्ति सोपायं को न जीवति । व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ।। ८०८ ॥ मृत्यावपि कृतेऽवश्यं निजपापं विशेषतः । भवान्तरेऽपि भोक्तव्यं तस्मादत्रैव भुज्यते ।। ८०९ ॥
किञ्च,
अप्रार्थितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैन्यमत्रातिरिच्यते ॥८१०॥ , रक्तामा महिषाः, लोहितनेत्रा म्लेच्छाश्च ।