________________
द्वितीयः सर्गः।
१३७ तयोर्येष्ठोऽवदद् देव ! रात्रावद्य मया लघोः । .. सोदरस्य पुरः ख्यातं स्वचरित्रकथानकम् ॥ ८४७॥ तच्छ्रुत्वा काऽपि सार्थस्त्री द्रुतमागत्य सनिधौ । युवां पुत्रौ ममेत्युक्त्वाऽस्मत्कण्ठलगिताऽरुदत् ।। ८४८ ॥ सार्थेश ! वद भोः ! सत्यं कैषा किं वा करोति ते ?। पृष्टे राज्ञेति सोऽवादीद् देव ! पृथ्वीपुरान्मया ॥ ८४९ ॥ आनीता सत्यमेवैतद् गृहे कर्म करोति मे । कुलं तु विमलं तस्याः सतीत्वेनाऽनुमीयते ॥ ८५० ।।
(युग्मम् ) ततः प्रैषीनरानेषा संबोध्याऽऽनीयतामिह ।। बलात्कारस्तु नो कार्यः शिक्षयित्वेति भूपतिः ॥८५१॥ तेऽपि गत्वा वलित्वा च शशंसुर्देव ! नैति सा । केवलं काऽपि नैष्यामीत्युदित्वाऽभूदधोमुखी ॥ ८५२ ॥ अथ सद्यः स्वयं राजा राजपाटीमिषाद् बहिः । गत्वा व्याघुट्य सार्थान्तः सार्थेशावासमागतः ॥८५३॥ भद्रासनोपविष्टस्य तस्य दृग्गोचरं गता। राज्ञी तत्रैकदेशस्था कुचेलाऽतीवदुर्बला ॥ ८५४ ॥ असंस्कृतवपुर्दीना तद्दिने तु विशेषतः। अपास्ताऽशेषकर्तव्या पुत्रग्रहमहार्तितः ॥ ८५५ ॥
. (युग्मम् ) चिरात् तत्तादृशावस्थां दृष्ट्रा मदनवल्लभाम् । लज्जया यदि नाऽऽक्रन्दं चकार.धरणीधवः ॥ ८५६ ॥ उवाच मदने ! देवि ! किं मां त्वं नोपलक्षसे । इत्युक्ता प्रत्यभिज्ञाय वपतिं सहसैव सा ॥ ८५७ ॥ हाँ-त्सुक्य-त्रपा-जाड्य-वितर्कादिरसैभृशम् । संकीर्णमानसा तस्थौ पत्युः पादार्पितेक्षणा ॥ ८५८ ।। निपत्य पादयोः सोमदेवोऽप्यमलमानसः ।