SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १३८ श्रीपार्श्वनाथचरिते क्षमयामास तां भीतो गर्हयन् निजदुष्कृतम् ॥ ८५९ ॥ 'ययाचे चाऽभयं देवीं साऽप्यनल्पस्वभावतः । तत्तस्मै दापयामास कुपितादपि भूपतेः ॥ ८६० ।। अथ राजा विधाप्यैनां चारुनेपथ्यभूषिताम् । पुरो न्यस्य करिस्कन्धारुढस्तूर्यमहारवैः ॥ ८६१ ॥ राजचिह्नाश्चितो नव्यपरिणीत इवोच्चकैः। वीक्ष्यमाणः पुरस्त्रीभिरगावलमन्दिरम् ॥ ८६२॥ (युग्मम् ) कीर्तिपाल-महीपालावप्याकार्य सुतावुभौ। सस्नेहं दृढमालिङ्गय चकार विषयांधिषौ ॥ ८६३ ॥ मिलितानां चिराचेषामेकत्र स्वस्थचेतसाम् । आत्मीयाऽऽत्मीयवृत्तान्तप्रश्नाख्यानविधायिनाम् ॥८६४॥ अनुभूतमहादुःखादसंख्यं यदभूत् सुखम् । तत्त एव स्म जानन्ति केवली वा न चाऽपरः ॥ ८६५ ॥ प्राचीनदुष्कृतेनैव वियुक्तमखिलं पुनः । शीलसत्त्वप्रभावेण मिलितं च कुटुम्बकम् ॥ ८६६ ॥ इतश्चन्यस्य सिंहासने स्वामिपादुके तत्तदाज्ञया । मन्त्री धारापुरे राज्यं तथैव निरवाहयत् ।। ८६७ ।। ज्ञात्वाऽथ नाथवृत्तान्तं सुबुद्धिः श्रीपुराभिधे । पुरे समये विज्ञप्तिं माहिणोद् निजपूरुषम् ॥ ८६८ ॥ निर्विलम्बमसौ गत्वा तत्र वेत्रिनिवेदितः। नृपमानम्य विज्ञप्तिं मुमोच पादयोः पुरः ।। ८६९ ।। तामुद्वेष्टय नृपादेशाद् निदेशकरणोद्यतः । प्रकाशं वाचयामास सुविद्वानङ्गलेखकः ॥ ८७० ॥ तद्यथाखस्तिश्रीश्रीपुराभिख्ये पुरे भाग्यैकवेश्मनः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy