________________
१३९
द्वितीयः सर्गः। प्रतापाऽऽक्रान्तविक्रान्तप्रत्यार्थपृथिवीभुजः ॥ ८७१ ॥ दिक्कन्याश्रवणोत्तंसीकृतकीर्तिसरोरुहः महाराजधिराजस्य श्रीसुन्दरमहाप्रभोः ॥ ८७२ ।। चरणाम्भोरुहौ धारापुरादादेशकारकः । सुबुद्धिः सादरोत्कण्ठं नत्वा विज्ञपयत्यदः ॥ ८७३ ॥
(विशेषकम् ) खामिपादद्वयीरेणुकणेन मयकाऽपि यत् । यथादेशेन नियूंढ प्रभावः प्राभवो हि सः॥ ८७४ ॥ चकोर इव चन्द्रस्य रथाङ्ग इव भाखतः। चातको जलदस्येव वसन्तस्येव कोकिलःः॥ ८७५ ॥ उत्कण्ठितः समस्तोऽपि जनो देवस्य दर्शनम् । वाञ्छत्यत्र प्रसघेतः शीघ्रं पादोऽवधार्यताम् ॥ ८७६ ॥
(युग्मम्) इत्याकर्ण्य स्खलोकस्य रक्तिं भक्तिं च मन्त्रिणः । चिरात् स्मृत्वा नृपःप्रीतोऽकथयत्साधु साधु भोः ॥८७७॥ बुद्धिः सिद्धिः परा भक्तिर्येषामेषा गुणत्रयी। त एव सेवका राज्ञः, कलत्रमितरे पुनः ।। ८७७ ॥ अथ ज्येष्ठसुतं तत्र स्थापयित्वा निजे पदे । राजवर्ग समादिश्य पौरानापृच्छय सादरम् ॥ ८७९ ॥ सकलत्रसुतो भूरिपरिवारसमन्वितः। प्रयाणैरनवच्छिन्नैर्ययौ धारापुरं नृपः ॥ ४८० ॥ प्रवेशाद्युत्सवं तत्र मन्त्रिसामन्तनागराः। कृत्वा निवेद्य सर्वस्खं मुदितास्य सिविरे ॥ ८८१ ॥ अन्येधुर्बहिरुद्याने ज्ञानिनं मुनिमागतम् । श्रुत्वा गत्वा च नत्वा च खं प्राच्यं कर्म पृष्टवान् ।।८८२॥ मुनिज्ञानाद् विदित्वोचे महाभाग ! पुरा भवे । इभ्यो बभूव चम्पायां शङ्खाख्यः श्रीश्च तत्प्रिया.॥८८३ ॥