SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । २७९ ॥ उपलक्ष्य पुनः सम्यक् करुणार्द्रमना भृशम् । - अहहाऽस्य वराकस्य दशैषाऽजनि कीदृशी ।। २७५ ॥ अहमित्थमयं चैवं धिग् दैवमिति चिन्तयन् । तमाकार्य पुनश्रेटैः कुमार इदमभ्यधात् ।। २७६ ॥ अहो ! जानासि मां ब्रूहि सोऽपि कम्पितविग्रहः । भयेन तरलं नेत्रयुगं कुर्वन्नवोचत ।। २७७ ॥ देव ! पूर्वाऽचलोत्तुङ्गशृङ्गसङ्गतमण्डलम् । को न वेत्ति रवि को वा गगने घनमुन्नतम् १ ॥ २७८ ॥ अलं संभ्रमवाक्येन सत्यमाख्याहि तेन सः । . इत्युक्तः पुनरप्याह तर्हि देव ! न वेद्यऽहम् ॥ ललिताङ्गोऽब्रवीद् यस्य चक्षुरुत्पाटनेन भोः ! | उपचक्रे त्वया तं मां कथं नो वेत्सि सज्जनः १ ॥ २८० ॥ तत् श्रुत्वा सहसाऽऽशङ्कालज्जाभाराऽतिरेकतः । विविक्षुरिव पातालमधोमुखमसौ स्थितः ।। २८१ ॥ अथ त्याजित दुर्वेषं कारितस्नानभोजनम् । परिधापितसद्वस्त्रं कुमारस्तमभाषत ।। २८२ ॥ प्रभूतेनाsपि किं तेनोपार्जितेन धनेन भोः ! । येनाssत्मीय मनुष्याणां संविभागो न विद्यते १ ।। २८३ ।। अद्य मे सफलं राज्यं यत्र दुःखसखो भवान् । समाजगाम तत्सौख्यं भुङ्क्ष्व निश्चिन्तमानसः ॥ २८४ ॥ सविस्मयमनाः सोऽपि दध्याविति हृदि क्षणम् । अहो ! क्वाऽरण्यजावस्था के चासावस्य दृश्यते ? || २८५ ॥ चित्तेऽपि यदसम्भाव्यं देवात् तदपि जायते । अस्तु वा किं वितर्केण भणामि समयोचितम् १ ॥ २८६ ॥ सतोऽपि लयंतां दोषानऽसतोऽपि परे गुणान् । वदतां विगतोपाधिः काऽप्यऽपूर्वा स्थितिः सताम् ॥ २८७ ॥ १ षष्ठीबहुवचनम्, आच्छादयतामित्यर्थः । .२३
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy