________________
२२६
श्रीपार्श्वनाथचरितेतमुवाच हरिश्चन्द्रः प्रार्थये त्वां किमप्यहो !। स पाहैवंविधावस्थं किं त्वं प्रार्थयसेऽत्र माम् ? ॥९२३॥ राज्ञोचे यदलं दातुं प्रार्थ्यसे त्वं तदेव हि । स प्राह तर्हि याचस्व यदभीष्टं नरोत्तम ! ॥ ९२४॥ हरिः प्राह प्रयाहि त्वं खं राज्यं स्वीकुरु क्षणात् । यत् कार्य तत् करिष्यामि विद्याधर्याः स्ववर्मणा ॥९२५॥ पुरुषः प्राह किं ब्रूषे नात्मनीनमिदं खलु । अधमः कः स्वयं स्वार्थे परप्राणान् व्ययिष्यते ? ॥९२६॥ किञ्च खं मे यथाभीष्टं यथा मे मृत्युभीरुता । यथैषा दयिता मेऽस्ति तवाऽप्येवं तथाऽस्ति भोः!॥९२७॥ तद् याहि त्वमतः स्थानादधुनष्यति खेचरी । तेनेत्युक्ते हरिश्चन्द्रः सदैन्यमिव तं जगौ ॥ ९२८॥ मा मा मे प्रार्थनां व्यर्थी कुरुष्व पुरुषोत्तम ! । खेनाऽप्यहं महाकष्टान्मर्तुकामोऽस्मि तद् यदि ॥ ९२९ ॥ त्वादृशस्योपकृत्याऽथ म्रिये स्यां सफलस्तदा । उपकारः परो धर्म इत्याख्यान्ति बहुश्रुताः ॥ ९३० ॥ न जातौ न जनिष्येते द्वाविमौ पुरुषौ भुवि । अर्थितो यः करोत्येव यश्च नार्थयते परम् ॥९३१॥ इत्येवं बहुशोऽभ्यर्थ्य स्वयमुन्मोच्य बन्धनात् । याहीति प्रेषितस्तेन स जगाम प्रियायुतः ॥ ९३२ ॥ नूपुरकाण-कल्पद्रुपुष्पस्रक्सौरभादिभिः । ज्ञात्वा विद्याधरी आरादायान्तीं नृपतिः क्षणात् ॥९३२॥ बद्ध्वा न्यग्रोधशाखायां स आत्मानमधोमुखम् । गतमृत्युभयं तस्थौ रोमाञ्चकवचाञ्चितः ॥ ९३४ ॥ ततो विद्याधरी व्योम्नोऽवतताराऽऽर्द्रचीवरा ।
अग्निकुण्डत्रये वह्निमुज्ज्वलं समाचस्करत् ॥ ९३५ ॥ १ आत्मने हितमात्मनीनम् , तन्न ।