SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२७ तृतीयः सर्गः। सज्जीकृत्य च पूजादि विद्यार्याह पार्श्वगान् । चित्राङ्गद ! समीक्षस्व किंलक्षणधरो नरः ॥९३६ ॥ चित्राङ्गदोऽप्युपागत्य हरिश्चन्द्राङ्गलक्षणम् । वीक्ष्योचे देवि ! मोदख येनाऽयं चक्रिलक्षणः ॥९३७॥ हुत्वा कुण्डत्रये मांसमस्य प्रान्ताहुतीकृते । शीर्षे विश्ववशीकारविद्याऽऽविभविता स्वयम् ॥ ९३८ ॥ इत्यूचाना मुदोत्थायाऽऽनर्च सर्वाङ्गमप्यमुम् । ऊचे च स्मर किञ्चित् त्वं देवं यत्रासि भक्तिमान् ।।९३९॥ भवेश्च सात्त्विको येन, विद्या सिध्यति मेऽधुना । यत् त्वन्मांसहुतैः सा स्यात् प्रीता च वरदा च मे ॥९४०॥ हरिश्चन्द्रस्ततोऽवादीद् ध्वस्तसंसारवैशसम् । स्मरामि निष्ठितक्लेशं देवं नाभिसमुद्भवम् ॥ ९४१ ॥ इदानीं मा विलम्बस्व होमः स्याद् बहुविघ्नभूः । स्वेनैवोत्कृत्य मांसं स्वं यच्छाम्येष गृहाण तत् ॥९४२॥ सा प्राह सिद्धिमन्त्रस्य जातैवं त्वं यदुत्तमः । मत्तोऽप्युत्साहवानीदृक् समवायो हि पुण्यतः ॥९४३॥ ततः प्रवृत्ता कुण्डेषु ज्वलज्ज्वालाऽऽकुलेषु सा। हरिश्चन्द्रार्पितं मांसं प्रक्षेप्तुं मन्त्रपूर्वकम् ।। ९४४ ॥ ऊचे च परितः खड्गहस्तान् विद्याधरोत्तमान् । मा दत्तात्र प्रवेशं भोः ! श्वापदस्य नरस्य वा ॥९४५।। कियत्यपि कृते होमेऽभूदाविर्देवतामुखम् । मध्यकुण्डात् ततो जातो सोत्साहौ तावुभौ मुदा ॥९४६।। अथ गोमायुरटितं कुण्डानि परितोऽभवत् । विषादात ततो विद्याध£चेऽयं निवर्त्यताम् ।।९४७॥ यद्यस्य घोरफेत्कारैर्निद्रां त्यक्ष्यति तापसः । होमध्वंसं तदागत्य स करिष्यति निश्चितम् ॥९४८॥ १ आकृष्य, इत्यपि।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy