________________
तृतीयः सर्गः।
२२५ हरिर्गत्वा ततोऽपश्यत् पुमांस पूर्णलक्षणम् । ऊर्ध्वपादमधोवक्त्रं वटशाखानियन्त्रितम् ॥ ९१० ॥ सोढाऽहं पुरुषः कान्ते ! त्वं पुनर्भाविनी कथम् ? । तत्पलापमिति श्रुत्वा दध्यौ राजाऽस्य सा प्रिया ॥९११॥ अस्योपकारं कुर्वे यद् दत्ता भूर्मुनये मया । मुनिकन्याधनोपाये विक्रीतौ दयिता-सुतौ ॥ ९१२ ॥ जीवितस्याऽस्य निर्विण्णः स्वयमेव पुराऽस्म्यहम् । कृत्वा परार्थ चेद् यामि तत् किं नातं फलं मया ? ॥९१३।। इति ध्यात्वा हरिः प्रोचे तमुद्धं नरं मृदु । अहो ! कस्त्वं कथं चेयमवस्था ते सुदुःसहा? ॥९१४॥ जानन्नस्मीति यद् वक्तुमुद्बद्धन न शक्यते । परं त्वदाकृतिः पुण्या प्रयुङ्क्ते प्रष्टुमत्र माम् ॥ ९१५ ॥ तदाख्याहि न शक्तोऽस्मि द्रष्टुं ते दुस्सहां दशाम् । इति तत् प्रणयं दृष्ट्वा प्रोवाचोद्धपूरुषः ॥ ९१६ ॥ नाहमेतां दशां दीनां कस्यापि हि निवेदये । तच्छ्रोता वेत्ति किं मत्तो यत् परित्राणमीहते ? ॥९१७॥ परन्त्वन्यभवस्नेहानुबन्धादथवोत्तमात् । उपकारपरत्वात् ते पृच्छते कथयामि भोः ! ॥ ९१८ ।। महासेनोऽस्मि काशीन्द्रचन्द्रशेखरनन्दनः । विद्याधर्यास्त्र पल्यङ्कादानीतः प्रियया युतः ॥९१९॥ किमर्थमिति तेनोक्ते नरः प्राहाऽत्र सम्प्रति । मन्मांसेन महाहोमं सा करिष्यति खेचरी ॥९२०॥ क गता साधुना विद्याधरीति हरिणोदिते । स्नातुं गङ्गां नदीं व्योम्ना जगामेत्यवदद् नरः ॥९२१॥ ततो दध्यौ नृपो हर्षाद् गत्वरैश्चन्ममाङ्गकैः। विद्याधर्या भवेत् सिद्धिर्जीवितं चाऽस्य चारु तत् ॥९२२॥ १ चतुर्थ्यन्तम् ।
२९