________________
द्वितीयः सर्गः। तं गजेन्द्रमिवारूढो नखतीक्ष्णः कृशोदरः। करवालललजिह्वो भीमः सिंह इवाऽशुभत् ।। २२५ ॥ दध्यौ च मारयाम्येनं किंत्वेष च्छद्मनापि मे। . सेवां चक्रे तथा जीवन् यदि धर्मेऽपि रज्यति ॥ २२६ ध्यायन्निति कुमारेन्द्रः कथश्चिदपि लाघवात् । धृत्वा चरणयोः कापालिकेनोच्छालितोऽम्बरे ॥ २२७ ॥ स पतन् यक्षिणीदेव्या दैवयोगादवाप्यत । करयोः संपुटीकृत्य नीतश्च निजमन्दिरे ॥ २२८ ॥ उत्तुङ्गचङ्गविस्तीर्णे पुण्यराशाविवोज्ज्वले । तत्र भीमः स्वमैक्षिष्ट दिव्यसिंहासनस्थितम् ॥ २२९॥ सार्धत्रिभङ्गघटितमिव रूपं दधत्यथ । पाञ्जलिः पुरतो भूत्वा यक्षिणी वदति स्म सा ॥२३०॥ अयं विन्ध्याचलो भद्र ! ममेदं वैक्रियं गृहम् । क्रीडार्थ निवसाम्यत्र कमलाक्षाऽस्मि यक्षिणी ॥२३१।। निजदेवपरीवारता खैरमिहानिशम् । तिष्ठाम्यद्य पुनः शैलमष्टापदगहं गता ॥ २३२ ॥ ततो वलन्त्या दृष्टोऽसि प्रक्षिप्तस्त्वं नमोऽङ्गणे । कापालिकेन तस्माच्च पतन् यत्नातो मया ।। २३३ ॥ अधुना मारदुर्वारशरघातनिपीडिता ।। शरणं त्वां प्रपन्नास्मि रक्ष मां पुरुषोत्तम ! ॥ २३४ ॥ परिवारो मदीयोऽयं सर्वोऽपि तव किङ्करः। भविता तद्विधायाऽत्र प्रसाद, संगृहाण माम् ॥ २३५ ॥ यक्षिण्यास्तद्वचः श्रुत्वा हसित्वेषद् नृपाङ्गनः । बमाण यदहो ! काचित् परा काष्ठा मनोभुवः ॥२३६॥ दूरेऽस्तु मादृशस्तावदबुधो भूमिगोचरः । इत्थं विबुधलोकोऽपि मदनेन विडम्ब्यते ॥ २३७ ॥ अनेनाभिद्रुता जीवाः कृत्याकृत्यं हिताहितम् ।
१२