________________
श्रीपार्श्वनाथचरितेयज्जीवो भावुकं द्रव्यं मणिः पुनरभावुकम् ॥२१२ ॥ तेनातिभणितोऽप्येवं भीभो नामुश्चदाग्रहम् । क्रमेण च समायाता सैव कृष्णचतुर्दशी ।। २१३ ॥ तस्यां कपालिना साध वीरवेषधरो निशि । सखड्गश्चलितो भीमः श्मशानं प्रति निर्षयः ॥ २१४ ।। आलिख्य मण्डलं तत्रार्चित्वा कामपि देवताम् । कुमारस्य शिखाबन्धं पाखण्डी कर्तुमुद्यतः ॥ २१५ ॥ तावद्भीमो जगौ भद्र ! मा शङ्किष्ठा यतो मम । सत्वमेव शिखाबन्धः प्रकृतं क्रियतां त्वया ॥ २१६ ॥ आकृष्टासिललजिह्वाभीमो भीमस्तदन्तिके। पश्चानन इवात्युग्रः साहसैकरसः स्थितः ॥ २१७ ।। शिखाबन्धच्छलं व्यर्थ जातमस्य ततः शिरः । पराक्रमेण मे ग्राह्यमिति निश्चित्य चेतसि ।। २१८ ।। कर्तनीभृत्करो रूपं कृत्वा व्योमसमं निजम् । कूपाकारश्रवश्छिद्रो विकटं गर्जति स्म सः ॥ २१९ ॥ ततश्च प्रलयाम्भोदगर्जितादिव दारुणः । विश्वक्षोभः क्षणं जज्ञे संभ्रान्तसुरदानवः ॥ २२० ॥ भीमस्तच्चेष्टितं दृष्ट्वा यमजिह्वानिभं करे । कृपाणं कम्पयामास निष्पकम्पः क्रुधं दधत् ।। २२१ ।। प्राह कापालिको रे ! रे ! बाल ! गृहामि ते शिरः । स्वयं चेदर्पयस्येतत् स्यास्तदन्यभवे सुखी ॥ २२२ ।। भीमेनाऽभाणि चण्डाल ! रे ! कुपाखण्ड ! मायिक !। हत्वा मृत्युमिवाद्य त्वां करोमि सुखिनं जनम् ।।२२३॥ शस्त्रीघातस्ततस्तेन मुक्तस्तं नृपनन्दनः। स्खलयित्वाऽसिनोत्प्लुत्य तत्स्कन्धमधिरूढवान् ॥ २२४॥ १ भवस्यन्य, एतदपि ।