________________
८७
द्वितीयः सर्गः। एकः कापालिकोऽभ्यागात् प्रतीहारनिवेदितः ।। १९९ ।। आशीर्वादवचःपूर्वमुपविश्य नृपाङ्गजम् ।। याचित्वैकान्तमित्याह पाखण्डी प्रणयान्वितम् ॥२०॥ भुवनक्षोभिनी नाम वरविद्यास्ति भीम ! मे । सस्या द्वादश वर्षाणि पूर्व सेवा कृता मया ॥ २०१॥ अधुनोत्तरसेवां तु गत्वा प्रेतवनान्तरे । एष्यत्कृष्णचतुर्दश्यां चिकीर्षुरहमस्मि भोः ! ॥ २०२ ॥ अतस्त्वं चेद् महासत्त्व ! भवस्युत्तरसाधकः । तदा सिध्यति में विद्या तत् श्रुत्वोवाच राजमूः ॥२०३॥ असारेण शरीरेण यद्यनेन विनाशिना । गुणः कस्यापि कोऽपि स्यात्तन्नु किं नार्जितं मया? ॥२०४। प्रतिपद्येति भीमेन विसृष्टः सोऽब्रवीदिदम् । कुमार ! दशभिर्घौरायास्यति चतुर्दशी ।। २०५॥ तावन्त्यहानि ते पार्श्वे स्थास्येऽथ नृपजन्मना । अनुज्ञातः, स्थितस्तत्र स कुर्वन् भोजनं सह ॥ २०६॥ ततो मंन्त्रिसुतोऽवादीत् पाखण्डी किमिह प्रभो ! ? । कुमारः प्राह कार्येण पुनमन्त्रिसुतोऽब्रवीत् ।। २०७॥ कार्य किममुनाऽऽलापोऽप्यनेन सह नोचितः। कुसंसर्गेण माऽऽत्मीये सत्सम्यक्त्वे मलं कुरु ॥ २०८ ॥ किंच दुर्जनसंसर्गो मधुरोऽपि मुखे सखे ! । निर्वाहे मारयत्येव कालकूट इव ध्रुवम् ॥ २०९ ॥ कुमारः प्राह सत्यं भोः ! किन्तु दाक्षिण्यतो मया । प्रतिपन्नमिदं तेन श्रेयान् निर्वाह एव मे ॥ २१० ॥ अथवाकिं करोति कुसंसर्गो निजधर्मदृढात्मनः । सर्पशीर्षोषितः किं न हरतेऽहिविषं मणिः ? ॥ २११ ॥ पुनमन्त्रिसुतः प्राह दृष्टान्तोऽयं न किंचन ।