________________
८६
श्रीपार्श्वनाथचरिले
आदेशो दीयतां तत्र ततो मुनिपतिर्जगौ ।। १८६ ॥ अर्हन् देवो गुरुः साधुः श्रद्धानं च जिनागमे । शङ्कादिदोषनिर्मुक्तं सम्यक्त्वमिति पालय ।। १८७ ॥ ततोऽसौ मन्त्रिणा सार्धं तत्प्रपद्य पुनर्मुनिम् । पप्रच्छ भगवन् ! कोऽयं मृगो मे शुभकारणम् ।। १८८ ।। मुनिराख्यदयं प्राच्यभवे विमोऽभवत् तव । मित्रमज्ञानतपसा मृत्वा यक्ष इहाऽजनि ।। १८९ ॥ प्राप्तो भद्रकभावं च नित्यमास्माकदर्शनात् । तत्त्वां पूर्वभवमीत्या मृगो भूत्वेत्यबोधयत् ।। १९० ॥ प्रत्यक्षीभूय यक्षोsपि प्रहृष्यन्नित्यभाषत । मयापि तब पादान्ते प्रभो ! सम्यक्त्वमादृतम् ॥१९१॥ शिक्षामन्यामपि प्राप्य मुनीन्द्राद् धर्मगोचराम् ।
यक्षो निजस्थानं ययौ नलनृपोऽपि हि ।। १९२ ॥ अथ राजा विधाप्याद्विम्बं तस्यार्चनं सदा । कुर्वन् प्रभावनां धर्मे स महाश्रावकोऽजनि ।। १९३ ॥ प्रतिपद्य परिव्रज्यां प्रान्ते चानशनक्रमात् । सर्वार्थमगमत् तस्मादिहैवागत्य सेत्स्यति ।। १९४ ॥ इति श्रुत्वा नलाख्यानं भीमसेन ! त्वया स्वयम् । प्रतिपन्नत्रते भाव्यं दृढेनान्योऽपि बोध्यताम् ।। १९५ ।। भीमोऽप्याह तवादेशः प्रमाणं मे मुनीश्वर ! । धन्योऽहं यस्य मे पूज्यैर्विशिष्टोऽनुग्रहः कृतः ॥ १९६ ॥ क्रोधव्याघ्रे मानशैले मायावंशालिसंकुले | लोभ भवारण्ये येकः सार्थपो गुरुः ॥ १९७॥ अथ नत्वा मुनिं पर्षद् निजस्थानं गताऽखिला । भीमोsपि कुरुते धर्म देवपूजादिना सुखी ।। १९८ ।। अन्यदा निजधामस्थं कुमारं मित्रसंयुतम् ।
१ त्वत्पदोपान्ते, एवमपि ।