SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। ततस्तोषादहु द्रव्यं दत्त्वा राज्ञा व्यसर्जि सः ॥ १७३ ॥ राज्ञी मन्त्रिजनानेवं विरक्तो नृपतिर्जगी। इन्द्रजालमहो ! दृष्टं, तैरूचे त्वत्प्रसादतः ॥ १७४ ॥ नृपोऽवोचदिदं यादृगिन्द्रजालविजृम्भितम् । तादृशं रूपतारुण्यस्नहायुर्विभवादिकम् ।। १७५ ॥ तथाहियेऽनङ्गतुल्यरूपेण कामिनीनयनोत्सवाः । कुष्ठरोगदवप्लुष्टाः शक्यन्ते ते न वीक्षितुम् ॥ १७६ ।। कृतास्तारुण्यचैत्रेण ये स्फुरन्नवपल्लवाः । शटत्पत्रदुमायन्ते जरसा फाल्गुनेन ते ॥ १७७॥ नखमांससमा प्रीतिर्जाता येषां परस्परम् । तेऽप्येकत्रानवस्थाना दृष्टा दीपान्धकारवत् ॥ १७८ ॥ आयुः सच्छिद्रकुम्भस्थजलवद् गलनात्मकम् । श्रीस्तु वातस्फुरद्दीपकलिकेव चलाचला ॥ १७९ ।। इत्यनित्ये जगवृत्ते नात्मा मे रज्यतेऽधुना। . मोक्षाय पूर्वजाचीर्ण चरिष्यामि यतिव्रतम् ॥ १८० ॥ इत्युक्त्वा स्वपदे न्यस्य कुमारं हरिविक्रमम् । । दत्त्वा धर्मे धनं जातः श्रमणः सोऽहमेव तु ॥ १८१ ॥ स्ववृत्तं यद्यपि खेन कथ्यमानं लघुत्वकृत् । तथापि नृपते ! युष्मादृशां स्याद् गुणकारणम् ॥ १८२ ॥ इति श्रुत्वा बहून्मीलन्मना नलनृपोऽब्रवीत् । । महासत्व ! त्रुटन्त्येवं बन्धनानि भवादृशाम् ॥ १८३ ।। मादृशां तु महामोहशृङ्खलाबद्धचेतसाम् । कषायारातिरुद्धानां मोक्षवार्ताऽपि दुर्लभा ।। १८४ ॥ मन्ये प्राच्यभवे पुण्यं पापं चाऽलं मयाऽर्जितम् । यत्ते पादयुगं दृष्टं यन शक्नोमि सेवितुम् ॥ १८५॥ तदेवं यस्य धर्मस्य योग्यताऽस्ति मम प्रभो!।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy