SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेतस्य मध्ये च भीमेन मुण्डमालास्त्रधारिणी । क्रूराक्षी महिषारूढा कालिकामूर्तिरीक्षिता ॥ २६५ ॥ पुरस्तस्याश्च पाखण्डी स एवं ददृशे शठः । वामहस्तेन केशेषु बिभ्राणः सुन्दरं नरम् ।। २६६ ॥ आरूढस्त्वागतो यस्यां भुजायां नृपनन्दनः । कापालिकस्य तस्यैव सापि वामेतरा भुजा ॥ २६७ ॥ करात्तपुरुषस्यायं पापात्मा किं करिष्यति ? । प्रच्छन्नीभूय तद्वीक्षे पश्चात् कुर्वे यथोचितम् ॥ २६८ ॥ इति संचिन्त्य तस्यासौ भुजादुत्तीर्य सत्वरम् । तस्यैव पृष्ठदेशेऽस्थाद् निभृतीभूय राजमूः ॥ २६९ ॥ (युग्मम् ) भीमस्य खड़मादाय भुजा यावत् समागता । ततः कापालिको वामकरात्तं नरमब्रवीत् ॥ २७० ॥ रे ! वराक ! स्मराऽभीष्टदेवतामाशु यत्तव । शिरोऽनेनासिना छित्त्वा पूजयिष्यामि देवताम् ॥ २७१ ॥ स प्राह त्रिजगज्जीवबान्धवो जिनपुंगवः । सर्वावस्थास्वपि ध्येयः शरणं मेऽस्तु सम्पति ॥ २७२ ।। तथा यस्तत्पदाम्भोजभृङ्गः स्वामी क्रमागतः । परार्थव्यसनी यश्च यस्याहं जीविताधिकः ॥ २७३ ॥ कापालिकस्य विश्वस्तो यश्च वारयतोऽपि मे । गतस्तेन समं कापि यो ममास्ति सदा हृदि ॥ २७४ ॥ स एव सुगृहीताहो हरिवाहननन्दनः । भीमनामा कुमारेन्द्रः स्मृतः कुरु यथेप्सितम् ॥ २७५ ॥ .. (त्रिभिर्विशेषकम् ) पाखण्डी प्राह रे ! पूर्वमयं लक्षणवानिति । देवीपूजार्थमारब्धा मया तस्य शिरश्छिदा ॥ २७६ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy