SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथचरिते अन्यदप्यभिधातव्यं नाऽसत्यं पापभीरुणा । गुरुवागन्यथाकारे कूटसाक्ष्ये च का कथा ? ॥ ५८० ॥ बहु कुरु गुरोः पुत्रं यद्वा सत्यव्रताग्रहम् । तथा सरोषमित्युक्तस्तद्वचोऽमंस्त पार्थिवः ।। ५८१ ॥ ततः प्रमुदिता क्षीरकदम्बगृहिणी ययौ । आजग्मतुश्च विद्वांसौ तत्र नारद - पर्वतौ ।। ५८२ ॥ सभायाममिलन् सभ्या माध्यस्थ्यगुणशालिनः । वादिनोः सदसद्वादक्षीरनीरसितच्छदाः ।। ५८३ ॥ आकाशस्फटिकशिलावेदिसिंहासनं वसुः । सभापतिरलंचक्रे नभस्तलमिवोडुपः || ५८४ ॥ ततो निजनिजव्याख्यापक्षं नारद-पर्वतौ । कथयामासतू राज्ञि सत्यं ब्रूहीति भाषिणौ ।। ५८५ ।। विप्रवृद्धैः स ऊचेऽथ विवादस्त्वयि तिष्ठते । प्रमाणमनयोः साक्षी त्वं रोदस्योरिवार्यमा ॥ ५८६ ॥ घटप्रभृतिदिव्यानि वर्तन्ते देव ! सत्यतः । सत्याद्वर्षति पर्जन्यः सत्यात्तुष्यन्ति देवताः || ५८६ ॥ देव ! त्वं सत्यवादीति विख्यातो भुवनत्रये । सत्यमेव स्थिरं लोके सर्वमन्यद् विनश्वरम् ।। ५८८ ।। त्वयैव सत्ये लोकोऽयं स्थाप्यते पृथिवीपते ! । स्वामिहार्थे कि ब्रूमो ब्रूहि सत्यत्रतोचितम् १ ||५८९ ॥ अदृष्टाः सिद्धगन्धर्वा राज्याधिष्ठातृदेवताः । लोकपालाश्च शृण्वन्ति वद सत्यं नरेश्वर ! | ५९० ॥ यद्युदेति रविः प्रत्यङ् मेरुश्चापि प्रकम्पते । तथाऽप्यसत्यं भाषन्ते नैव सत्यधना नराः ।। ५९१ ॥ वचोऽश्रुत्वैव तत् सत्यप्रसिद्धिं स्वां निरस्य च । अजान् मेषान् गुरुर्व्याख्यदिति साक्ष्यं वसुर्व्यधात् ॥ ५९२ ॥ असत्यवचसा तस्य क्रुद्धास्तत्रैव देवताः । ११६
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy