________________
द्वितीयः सर्गः। दलयामासुराकाशस्फटिकासनवेदिकाम् ॥ ५९३ ॥ वसुर्वसुमतीनाथस्ततो वसुमतीतले । पपात सद्यो नरकपातं प्रस्तावयन्निव ॥ ५९४ ॥ कूटसाक्ष्यप्रदातुस्ते श्वपचस्येव को मुखम् । पश्येदिति वसुं निन्दन् नारदः स्वास्पदं ययौ ? ॥ ५९५॥ उच्चारूढैनरैरात्मा रक्षणीयोऽतियत्नतः । दूरारोहपरिभ्रंशविनिपातः सुदुःसहः ॥ ५९६ ॥ देवताभिरसत्योक्तिकुपिताभिर्निपातितः । जगाम नरकं घोरं नरनाथो वसुस्ततः ॥ ५९७ ॥ यो यः सूनुरुपाविक्षद् राज्ये तस्याऽपराधिनः । प्रजघ्नुर्देवतास्तं तं यावदष्टौ निपातिताः ॥ ५९८ ॥ इति ज्ञात्वा महाघोरमसत्यवचसः फलम् । स्वमेऽप्युक्तस्य कूटस्य प्रायश्चित्तयति प्रधीः ॥ ५९९ ॥ जलं गलनवस्त्रेण विवेकन गुणवजः । सदानेन गृहारम्भो वचः सत्येन शुध्यति ।। ६०० ॥ अस्ति बाह्येषु हेमाद्यमङ्गोपाङ्गेषु भूषणम् । नराणामन्तरङ्गाया जिह्वायाः सत्यमेव च ॥ ६०१ ॥ सत्योपयाचितत्वेन पूज्यन्ते देवता अपि । देवतेव मनुष्योऽपि ध्रुवं सत्येन वीक्ष्यते ॥ ६०२ ॥ दूरेऽस्तु कूटसाक्ष्यादि सदप्यपरघातकम् । फल्गु वाक्यं परीवादं सत्यवादी विवर्जयेत् ॥ ६०३ ॥ तत्सत्यमपि नो सत्यं यत्परस्योपतापकम् ।। असत्यमपि तत्सत्यं यत्परस्योपकारकम् ॥ ६०४ ॥ परस्यालीकमारोप्यं हास्येनाऽपि न पण्डितैः । हर्षेण भक्षितं किं न मारणाय विषं भवेत् ? ॥६०५॥ दोषं खालमिवान्यस्य चालयंस्तेन लिप्यते । तज्ज्ञात्वा चतुरस्तेन मार्गे रुद्धमुखो व्रजेत् ॥ ६०६ ॥