________________
११८ श्रीपार्श्वनाथचरिते
धर्माऽसत्यं विशेषेण वर्जनीयं विचक्षणैः । सामकः कायजो दोषः सर्वगो वाचिकः पुनः ॥ ६० ॥ साधूनां सद्दान्यानां सतीनां सत्यवादिनाम् । महिमानमिव द्रष्टुं रविरायाति नित्यशः ॥ ६०८ ॥ तृतीयाऽणुव्रतं ज्ञेयं चौर्यवर्जनलक्षणम् । पालितं श्रेयसे यत्स्यादत्राऽमुत्राऽपि देहिनाम् ॥ ६०९ ॥ यस्याऽर्थे निजदेहोऽपि महाकष्टे नियोज्यते । क्षिप्यन्ते संशये प्राणा जनैः प्रियतमा अपि ॥ ६१० ।। तत्परस्य धनं येन निस्त्रिंशमतिना हृतम् । मृतेरप्यधिका तस्य तेन जीवन्मृतिः कृता ॥ ६११ ॥ आस्तां परभवेत्रापि चौर्योपप्लुतचेतसः । नित्यं छलेक्षिणः कापि शाकिन्या इव नो धृतिः ॥६१२॥ परस्यादत्तं नादत्ते सुधीस्तृणमपि कचित् । स्पृष्टोऽङ्गुल्याऽपि मातङ्गः किं न मालिन्यकारकः ॥६१३।। वैर-वैश्वानर-व्याधि-वाद-व्यसनलक्षणाः। महाऽनर्थाय जायन्ते चकाराः पञ्च वर्धिताः ॥ ६१४ ॥ तपस्यपि कृते प्रायः पापं चौर्यकृतं नृणाम् । अभुक्तं क्षीयते नैव दृष्टान्तोऽत्र महाबलः ।। ६१५ ॥ नगरे श्रीपुराभिख्ये पार्थिवो मानमर्दनः। यथार्थनामधेयोऽभूच्छत्रूणां मानमर्दनः ॥ ६१६ ।। बली महाबलो नाम तत्रैव कुलपुत्रकः । पितृभ्यां पाठितः किश्चिदुच्छन्नखजनः क्रमात् ।। ६१ ॥ निरङ्कुशतया स्वैरं भ्रमन् दुष्कर्मदोषतः । दूतव्यसनसञ्जातचौर्यवृत्तिरतोऽभवत् ॥ ६१८ ॥ सोऽन्यदा निशि चौर्याय दत्ताख्यधनिनो गृहे । गतो जालान्तरेणाऽसौ गृहमध्यमलोकत ॥ ६१९ ।।
समानः।