________________
द्वितीयः सर्गः।
सावद्विशोपकैकस्याऽमेलतो लेख्यके कलिम् ।.. कुर्वन्तं दत्तमद्राक्षीत् तनयेन समं भृशम् ॥ ६२० ॥ सुदक्षत्वादसौ चौरो व्यचारयदिदं हृदि । स्तोकव्यतिकरे स्वार्थभ्रंशकं धिगिमं हहा !॥ ६२१ ॥ प्रभूतार्जितवित्तेन विनीतेन सुतेन यः। एवं निशाभरे निद्राविमुखः कुरुते कलिम् ॥ ६२२ ॥ तस्य वित्तं हरिष्ये चेद् विदीर्णहृदयस्तदा । सद्यो विपत्स्यते तस्माद्यास्याम्यन्यत्र कुत्रचित् ॥६२३॥ गतश्च कामसेनाया वेश्याया भवनं ततः । दस्युर्ददर्श तां रूपनिर्जिताऽनङ्गवल्लभाम् ॥ ६२४ ॥ स्वयं स्नानाङ्गरागाचं कस्याऽप्यत्यन्तकुष्ठिनः । नानोपचारं परमं दैवतस्येव कुर्वतीम् ।। ६२५॥ (युग्मम् ) अचितन्यच्च नैतस्या अपि मे कल्प्यते धनम् । वीक्षते धनलोभेन स्मरवत् कुष्ठिनोऽपि या ॥ ६२६ ॥ परिभ्रमन् पुनर्विप्रगृहेऽथागाद् महाबलः । पर्यङ्के शयितं तं चाद्राक्षीत् स्वप्रिययाऽन्वितम् ॥ ६२७ ॥ इतश्वोपरिसंस्थेन मूत्रिते तत्करे खुना । स्वस्तीति कथयित्वाऽसौ स संभ्रान्तः समुत्थितः ॥६२८॥ चौरेण चिन्तितं लोभः स्वप्नेऽप्येतस्य विद्यते । एतावांस्तद् मया कार्य चौर्य नैवात्र निश्चितम् ॥ ६३९॥ किमन्यैरपि न क्षुदैर्मुषितैः पामरैर्जनैः । सर्वार्थसाधकं राजसौधमेव प्रयाम्यतः ॥ ६३० ॥ इत्येकमानसो गत्वा तत्र खात्रं प्रपात्य च । वासवेश्मप्रविष्टोऽसौ तत्र पार्थिवमैक्षत ॥ ६३१ ॥ • पल्यङ्कस्थं समं राझ्या शयानं सुखनिद्रया। तं दृष्टा मुदितोऽत्यन्तं चौरश्चिन्तितवानिदम् ॥ ६३२ ॥ अहो ! मे भाग्यसंपत्तिर्यदयं सर्वकामदः।