________________
श्रीपार्श्वनाथ चरिते
चिन्तामणिरिवैकान्ते चटितो भूपतिः करे ।। ६३३ ॥ जिघृक्षुस्तत्करं यावदीक्षतेऽसावितस्ततः । तावत् कपाटच्छिद्रेण विशन्तं सर्पमैक्षत ॥ ६३४ ॥ अरेऽत्र किमयं कर्ता विस्मयादिति स क्षणम् । निलीय दीपच्छायायां तस्थौ साहसिकाग्रणी ः १ ॥ ६३५ || सर्पोऽपि वासवेश्मान्तर्गत्वा शय्यावहिः स्थितम् । करं राज्ञ्याः प्रसुप्तायाः दष्ट्वा व्याघुट्य निर्ययौ ॥ ६३६॥ तं दृष्ट्रा कौतुकाक्षेपविस्मृतात्मा स तस्करः । निःशङ्खं द्वारमुद्घाट्य सहसैव तमन्वगात् || ६३७ ॥ सौधादधः समुत्तीर्य समभूमिं गतः फणी । स रूपं बिभरांचक्रे महाकायवृषस्य तु ।। ६३८ ॥ नर्दश्व स वृषो वृद्धं प्रतोलीद्वारयामिकम् । दण्डमुत्पाट्य धावन्तमभिहत्य न्यपातयत् ।। ६३९ ॥ चौरोऽथ निविडं पुच्छे गृहीत्वा पृच्छति स्म तम् । कस्त्वं भोः ! किमिहायातः किमिदानीं करिष्यसि । ॥६४० ॥ मर्त्यवाचाऽथ सोऽवोचत् किंकरोऽहं यमस्य भोः ! । राज्ञी - प्राहरिको हन्तुं तस्यादेशादिहाऽऽगमम् ॥ ६४१ ॥ श्वस्तने तु दिने नव्यराजप्रासादशृङ्गतः । सूत्रधारवरस्तुङ्गात् पतित्वा मृत्युमेष्यति ।। ६४२ ॥ चौरोऽप्याह स्म यद्येतत् तदा कथय संप्रति । भविष्यति कथं मृत्युः कुतो वा मम सुन्दर ! १ ॥६४३॥ स ऊचे भद्र ! मा प्राक्षीः पश्चात्तापकरं वचः । निर्बन्धेन पुनः पृष्टो वृषोऽवोचदहो ! शृणु ॥ ६४४ ॥ पुरेsa राजमार्गस्थो वटवृक्षोऽस्ति यो महान् । उद्धद्धस्तस्य शाखायां मृत्युमासादयिष्यसि । ६४५ ॥ तच्छ्रुत्वाऽत्यन्तभीतेन तेन मुक्तो वृषः क्षणात् । तिरोऽभूत् स पुनः कोऽपि तचत्कर्मेरितो सुरः ||६४६ ॥
१२०