________________
द्वितीयः सर्गः। . १२१ स द्वितीयदिने सूत्रधारस्य मरणं तथा । दृष्टाऽभूद् भाविपश्चत्वभयव्याकुलितो भृशम् ॥ ६४७ ॥ यत उक्तम्मस्तकस्थायिनं मृत्युं यदि पश्येदयं जनः । आहारोऽपि न रोचेत किमुताऽकृत्यकारिता ? ॥ ६४८॥ दूरं यास्याम्यतः शाखामिमां पश्यामि नो यथा । करिष्ये च तपस्तीनं सर्वानर्थनिवारकम् ॥ ६४९ ॥ इति निश्चित्य स कापि ग्रामे दूरतरे ययौ । तदासनवने दक्षिां जगृहे तापसान्तिके ।। ६५० ॥ विपन्ने च गुरौ देवायतने देवपूजनम् । कुर्वन् मठस्थितस्तोत्रमज्ञानं कुरुते तपः ॥ ६५१ ॥ इतश्च श्रीपुरे राजभवनाद् रत्नपेटिकाम् । गृहीत्वा तस्करः कोऽपि रात्रौ धृष्टः प्रनष्टवान् ॥ ६५२ ।। स राजपुरुषैः पृष्ठे प्रेर्यमाणो भयद्रुतः । विवेशोपवने तत्र यत्राऽऽस्ते दस्युतापसः ॥ ६५३ ।। मुक्त्वा तस्यान्तिके पेटां चौरो दूरं पलायितः । तां वीक्ष्य तापसः प्रातर्जजल्प मुदिताननः ॥ ६५४ ॥ अहो ! देवेन मे तोषाद् दत्ता रत्नकरण्डिका । तपःप्रभावादथवा किं न संपद्यते नृणाम् ? ॥ ६५५ ॥ इंति यावत् करेणैतां विषकन्यामिव स्पृशेत् । तावत् स वेष्टितोऽत्युप्रैरभितो राजपूरुषैः ।। ६५६ ॥ अरे ! तापसवेषेण मुषितं श्रीपुरं पुरा । मुमूर्षरधुना मूर्ख ! ढौकितो राजवस्तुनि ॥ ६५७ ।। इत्युक्त्वा यष्टि-मुष्ट्याद्यैर्हत्वा बद्ध्वा च ते दृढम् । पुरः कृत्वा च तं तुष्टाः श्रीपुरं प्रत्यचालयन् ॥६५८॥ तद्वीक्ष्य तापसो दध्यौ यत्तेन कथितं तदा । तदेतदुपतस्थे मां व्यक्तमेवं पपाठ च ।। ६५९ ॥
.१६