________________
१२२
श्रीपार्श्वनाथचरितेरक्ष्यते नैव भूपालैन देवैन च दानवैः । नीयते वटशाखायां कर्मणाऽसौ महाबलः ॥ ६६०॥ अरे ! लपसि किन्त्वेवं गलात्त इव बर्करः। इत्युक्तः स तलारक्षैः पापठीति तदेव हि ॥ ६६१ ॥ ततो नीत्वाऽथ तै राज्ञः सोऽर्पितो वस्तुना समम् । राजाऽपि संशयापनमानसस्तमभाषत ॥ ६६२ ॥ . अहो ! सौम्यं वपुर्वेषः प्रशस्यो दृगनुद्धता । क्रूरं च चौर्यकर्मेदं सर्वमीक्षे तवाऽघटम् ॥ ६६३ ।। ऊचे महाबलः स्वामिन्नघटं सर्वमावयोः । दैवस्य तु विचित्रस्य न किञ्चिदिह दुर्घटम् ॥ ६६४ ॥ रक्ष्यते तपसा नैव न देवैर्नच दानवैः । नीयते वटशाखायां कर्मणाऽसौ महाबलः ॥ ६६५ ।। अहो ! कोऽसौ वटस्तस्य का शाखा को महाबलः । राज्ञेत्युक्तः स भूयोऽपि पठति स्म तदेव हि ॥ ६६६ ॥ सगर्भ तद्वचो ज्ञात्वा महादक्षो नरेश्वरः । उन्मोच्य बन्धादभयं दत्त्वा पप्रच्छ तं पुनः ॥ ६६७ ॥ उन्मीलज्जीवितव्याऽऽशः स भूपाय यथातथम् ।। खात्रपाताऽहिदंशाचं वृत्तान्तं सर्वमाख्यत ॥ ६६८ ॥ तच्छ्रुत्वा सर्पदष्टात्मदयितास्मृतिजन्मना । रुषाऽरुणदृशाऽऽकाशे लक्ष्यं बद्ध्वा नृपोऽवदत् ॥६६९॥ अरे रे दैव ! निस्त्रिंश ! बालस्त्रीद्धघातक !। कृत्याऽकृत्यविशेषाऽज्ञ ! चौरवच्छिद्रवीक्षक! ॥६७० ॥ अजानतस्तदा मे चेदपजहे प्रिया त्वया । अनयैव तया शौर्यवृत्त्या मा गर्वमुदहेः॥ ६७१ ॥ अस्मिन् महावले वाक्यं निजं तदधुना यदि। .. सत्यापयिष्यसे तर्हि ज्ञास्ये त्वां सुभटं वरम् ॥ ६७२ ॥
१ अघटमानम्।