SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। १२३ इत्युदित्वा महीपालो ग्रासवासादिदानतः । खपुत्रमिव तं तुष्टः पुष्टं चक्रे महाबलम् ॥ ६७३ ॥ तर्जयामास दैवं हि रे हताश ! विधे ! तव । निधायं मस्तके पादं कीडत्येष महाबलः ॥ ६७४ ॥ दृष्टयाऽपि तया सोऽथ हृदि शल्यायमानया। शाखयोजितोऽत्यन्तमिति राज्ञो व्यजिज्ञपत् ।। ६७५ ॥ यदि तुष्टोऽसि मे देव ! दूरं देशं तदादिश । यत्र पश्यामि नो शाखामिमां दृष्टिविषोरगीम् ॥ ६७६ ॥ त्वमेवं वत्स ! मा भैषीर्देवोऽपि तव किङ्करः। मद्भुजापञ्जरस्थस्य शाखाऽप्तौ किं करिष्यति ? ॥६७७ ।। निःशङ्कमानसो भोगान् भुक्ष्व सर्वोत्तमानिति । धीरयामास तं राजा मन्वानो निर्जितं विधिम् ॥ ६७८ ॥ सोऽन्यदा कृतशृङ्गारः स्वर्णशृङ्खलकादिभिः । अश्वारुढः समं राज्ञा राजपाटिकया जन् ।। ६७९ ॥ प्रियया कार्यमुद्दिश्य व्याघुट्याऽऽकारितो गृहे । क्षणं स्थित्वाऽनु राजानं प्रचचाल पुनर्जवात् ॥ ६८० ॥ गतस्तस्य वटस्याधः शङ्कया वेगवत्तरम् । यियासुस्ताडयामास निदेयं कशया हयम् ॥ ६८१ ॥ सहसोल्ललिते तस्मिन् महाबलगले स्थितम् । स्वर्णशृङ्खलकं पश्चाद्भागे गत्वा समुच्छलत् ।। ६८२ ॥ तस्यैव वटवृक्षस्य शाखायास्तीक्ष्णकण्टके । स्थितं बिलग्य वेगाचाऽवस्तादश्वो गतोऽग्रतः ॥ ६८३ ॥ a (युग्मम् ) महाबलो गतबलः स्मृत्वा श्लोकं तमादिमम् । यावत्पठत्यसौ तावद् मृतः कण्ठग्रहार्दितः ॥ ६८४ ॥ द्रुतं लोकैरधस्तस्योत्तारितस्य कृतोऽखिलः । प्रतीकारो वृथा. जज्ञे उपदेशो यथा जडे ॥ ६८५ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy