________________
श्रीपार्श्वनाथचरिते
श्रुत्वा ततादृशं तस्यावसानं कर्णशूलकृत् । व्यावृत्यागत्य तं दृष्ट्वा विललाप भृशं नृपः ॥ ६८६ ॥ हा वत्स ! किमिदं जातं यदाम्र इव पुष्पित: ? । - दैवदावानले नैवमकस्माज्ज्वालितो भवान् ॥ ६८७ ॥ किं मया वट एवायं मूलादुन्मूलितो न हि । तस्यैव च्छेदिता शाखा पूर्वमेवाऽथवा न किम् ? || ६८८ || कथयन्नपि किं वा न स्थापितोऽन्यपुरे भवान् ? । सर्वथा मम दैवेन मतिभ्रंशः कृतो ध्रुवम् ।। ६८९ ॥ दीपिकेव मतिस्तावद्योतते हृदयाङ्गणे । नृणां यावन्न दुष्कर्ममयी वात्या विजृम्भिता ।। ६९० ॥ मयि सत्यपि रक्षार्थ नाथे सबलवाहने ।
१२४
अनाथस्येव कष्टं च दशा तेऽजनि कीदृशी १ ॥ ६९१ ॥ किश्चेदं मम नाथत्वं का वा रक्षा मया भवेत् । मृत्योः परवशे लोके कथं मिथ्याभिमानिता ! ॥ ६९२ ॥ आपद् व्यापादिता नैव जरा नो जर्जरीकृता । न मृत्युर्निहतो जीव ! गर्न कुर्वन् न लज्जसे ? ||६९३॥ अहं कर्ता च हर्ताऽहं सगुणोऽहमहं धनी । कोऽहमित्येव तावत् त्वं जीव ! नो वेत्सि तत्वतः ॥ ६९४॥ न केवलं कलत्रं मे पुत्रो वाऽयं त्वया हृतः । मनं मे मर्दयमेवंविधे ! नामाऽप्यपाहतम् ॥। ६९५ ।। विधिः को वा किं दैवं कः कृतान्तोऽथवा जने ? | जीवैर्नामान्तरेणेदं निजं कर्मैव भुज्यते ।। ६९६ ॥ तस्मात्तदेव रे ! जीव ! शुभं कर्म समाचरेः । इत्थं येनापमानस्ते कदापि न पुनर्भवेत् ।। ६९७ ॥ संबोधाऽभिमुखं नाथमित्थं ज्ञात्वाऽथ मन्त्रिणः । महाबलस्य संस्कारं श्रीखण्डाद्यैरकारयन् ॥ ॥ ६९८ ॥ तद्दिनाच्च शुचा कृत्यचिन्तया चार्दितो नृपः ।