________________
द्वितीयः सर्गः।
१२५ जातवीडः क्षतक्रीडस्तस्थौ सौधान्तरेव हि ॥ ६९९ ॥ यतःघातः शुन इवाऽज्ञस्य विस्मरेत क्रमान्तरे । सिंहस्येव न वीरस्य कदाप्यभिभवोद्भवः ॥ ७०० ॥ अन्यदा नन्दनोद्याने मुनिद्वन्द्वं समागतम् । ज्ञात्वा बोधाय मन्त्रीशा नृपं निन्युस्तदन्तिके ॥ ७०१ ॥ ज्ञानादतीन्द्रियात् सोऽपि ज्ञात्वा भावं महीपतेः। उवाच चित्तकालुष्यगर्वसर्वकषं वचः ॥ ७०२ ॥ इह जीवः स्वभावेन संबद्धः कर्मणा समम् । शुभाशुभेन तेनाऽसौ सुखदुःखं समश्नुते ॥ ७०३ ॥ अतः सौख्यार्थिना कार्यश्चयश्च शुभकर्मणः । सर्वथा विगमस्त्वस्य शाश्वतं सुखमिच्छता ॥ ७०४ ॥ योगे स्वभावसिद्धेऽपि पार्थक्यं जीव-कर्मणोः। उपायेन भवत्येव स्वर्ण-पाषाणयोरिव ॥ ७०५ ॥ स चात्मा चेतनारूपः स्वसंवेदनगोचरः।। वियोज्यः कर्मणो नित्यं योज्यः क्लेशेषु नो बुधैः ॥७०६॥ पङ्कादिव कृती दुःखाल्लुठित्वा निस्सरेद् बहिः । अन्तस्तु प्रविशन् मूढः सुतरां तत्र मज्जति ॥ ७०७॥ अज्ञानामिष्टनाशे स्याद् मोहनिद्रा विशेषतः। जागरा तु सतामन्तः कर्मनिर्मूलने भृशम् ।। ७०० ।। न बुद्धि-गुण-विद्याभिन श्री-बल-कुलक्रमैः ।
भक्त्या युक्त्या च न त्रातुं शक्यते मृत्युतो जनः ॥७०९॥ उक्तं च
यदभावि न तद्भावि भावि चेन तदन्यथा । इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ? ॥७१०॥ अनित्यताकृतमतिर्लानमाल्यो न शोचति । नित्यताकृतबुद्धिश्च भग्नभाण्डोऽपि शोचति ॥ ७११ ॥