________________
१२६
श्रीपार्श्वनाथचरितेन स प्रकारः कोऽप्यस्ति येन सा भवितव्यता। छायेव निजकायस्य लध्यते हन्त ! जन्तुभिः ।।७१२॥ देहपुष्टिं मनस्तुष्टिं परां वृद्धिं यशः श्रियोः। कुर्वन्नपि करोषि त्वं न तद् येन सुखी भवेः ॥ ७१३ ॥ आस्तामितरदोषेव महालज्जा मनस्विनाम् । पुनर्जन्मपुनर्मृत्युमालया यनियन्त्रणम् ।। ७१४ ।। तस्मादार्तिबदर्येदं रम्भास्तम्भनिभं मनः । अज्ञानपवनं जित्वा धृष्यमाणं निवारय ॥ ७१५॥ अस्तु वस्त्वखिलं चित्तप्रतिवन्धस्तु दुःखदः। संबद्धेऽपि नखे मांसालग्ने नो वेदना त्रुटौ ।। ७१६ ॥ वृद्धिस्तु बीजाद् रागस्य परे तु सहकारिणः । मनसो नयनस्येव गते रागे सुखं भवेत् ।। ७१७ ॥ पश्चदिनप्राघुणकान् प्राणान् विज्ञाय तत्कृते । को रागः कश्च विद्वेषः को निजो वाऽथ कः परः ॥७१८॥ अरण्यरुदितप्रायैर्दैवोपालम्भनैः किमु । विकल्पकल्पनैः किं वाम्भोधिगाहनसंनिभैः । ॥७१९ ॥
आत्मतत्वं निरीक्षव किं तीता-ऽऽगामिशोचनैः । करभारूढवद् दूरं पश्यतां जायते भ्रमः ॥ ७२० ॥ इत्यसौ. गुरुणा भूपः संबोध्य पटुवाचया । 1. नीत्वा मध्यस्थमार्गेण प्रापितः पदमव्ययम् ॥ ७२१ ॥ इति श्रुत्वा विभाव्याऽथ महाबलकथानकम् । सदा भाव्यं परद्रव्यपरिहारपरायणैः ॥ ७२२ ॥ उक्तं चआत्मवत् परभूतानि परद्रव्याणि लोष्ठवत् । मातृवत् परदारांश्च यः पश्यति स पश्यति ।। ७२३ ॥ तुर्य ब्रह्मवतं नाम परमब्रह्मकारणम् । .. शौचानां परमं शौचं तपसां परं च तपः ॥ ७२४ ।।