________________
द्वितीयः सर्गः।
१२७ एकरात्रमपि प्रायेणाऽजिह्मब्रह्मचारिणः। पुराणमतिभिः पुण्यमुच्यते विगतोपमम् ।। ७२५ ॥ ब्रह्मव्रतरता ये च विरता वाऽन्ययोषितः। महातेजस्विनस्ते स्युर्वन्द्या दिविषदामपि ।। ७२६ ॥ परित्यक्तान्यकान्तानां नराणामथ योषिताम् ।। विधिरप्यनुकूलाय दृष्टान्तोऽत्र निशम्यताम् ॥ ७२७ ॥ अङ्गदेशधराख्यातमास्ते धारापुरं पुरम् । तत्रासीत् सुन्दराद्वानराजा प्रकृतिसुन्दरः ॥ ७२८ ॥ एकैव दयिता तस्य भाग्यसौभाग्यभूरभूत् । सतीजनशिरोरत्नं नाम्ना मदनवल्लभा ॥ ७२९ ॥ तत्कुक्षिसरसीहंसौ वतंसौ स्वकुलश्रियः । कीर्तिपाल-महीपालाभिधौ जातावुभौ सुतौ ॥ ७३० ॥ न्यायधर्मैकनिष्ठस्य राज्ञो हृदि विशेषतः । परनारीषु सोदर्यव्रतं दृढमवस्थितम् ॥ ७३१॥ तच लोकं च सत्त्वैकनिधेः पालतयो भृशम् । सुस्वामिलाभप्रीत्येव कीर्तिरुल्ललिता दिवि ॥ ७३२ ॥ अन्यदा वासवेश्मस्थं तमभ्येत्य निशाभरे । विषण्णवदना मन्दं जगाद कुलदेवता ॥ ७३३ ॥ अहो ! राजन्नवस्था ते विषमा भविताऽधुना । तवाऽशक्यप्रतीकारो मयाऽपि, किमु मानवैः ॥ ७२४ ॥ स्वप्रभावेण किन्त्वस्यास्त्वदीयवचनादहम् । तव नव्यं वयो यावत् कुर्वे कालविलम्बनम् ।। ७३५ ॥ तच्छ्रुत्वा तां नृपो नत्वा हृदि व्याकुलितः क्षणम् । खभावधीरतादत्तावष्टम्भ इदमब्रवीत् ॥ ७३६ ॥ अर्जितं देवि ! जीवेन यत्पुरा कर्म दुष्कृतम् । तदेव भुञ्जतस्तस्य क्रियतेऽन्यः किमन्तरा ? ७३७॥ पटबन्धकवज्जीवः कर्म बन्नात्यनेकधा ।