________________
श्रीपार्श्वनाथचरितेसंग्राह्यं विदुषा सारनेपथ्यमिदमान्तरम् ॥ ७९४ ॥ जिनाज्ञाभूषणं मूनों ललाटस्याऽञ्जलिगुरोः । सच्छ्रतं कर्णयोः सत्यं जिह्वायाः स्वच्छता हृदः ॥ ७९५॥ पादयुग्मस्य सत्तीर्थ प्रति चङ्क्रमणक्रमः । जिनेन्द्रपूजनं दानं निर्विकल्पं करस्य च ।। ७९६ ॥ विकल्पेन पुनर्देवार्चनं दानं करोति यः। स खं हारयते पुण्यमत्रोदाहरणे शृणु !। ७९७ ।। तथाहि- वणि नौ कापि पुरेऽमण्डयतामुभौ । नन्दको भद्रकाख्यश्च नैकव्येनाऽऽपणद्वयम् ॥ ७९८ ॥ भद्रकः प्रातरुत्थाय नित्यं याति निजाऽऽपणे । नन्दको देवपूजार्थ पुनर्याति जिनालये ॥ ७१९ ॥ भद्रकश्चिन्तयत्येवमहो ! धन्योऽत्र नन्दकः । त्यक्ताऽन्यकृत्यो यः प्रातर्जिनेन्द्र नित्यमर्चति ॥ ८०० ॥ अहं तु निर्धनः पापी धनोपार्जनलालसः। अत्राऽऽगत्य मुखं प्रेक्षे पामराणां दिनोदये ॥ ८०१ ॥ धिर धिम् मे जीवितं गोत्रमिति ध्यानजलेन सः। मलं क्षालयति स्वीयं पुण्यबीजं च सिञ्चति ॥ ८०२ ॥ चिन्तयन् नन्दकस्त्वेवं मम देवार्चनक्षणे । भद्रको निस्सपनोऽयं धनं बहर्जयिष्यति ।। ८०३ ॥ अभिग्रहगृहीतोऽहं किं करोम्यधुना पुनः । देवार्चायाः फलं दूरे सद्यो हानिर्धनस्य तु ॥ ८०४ ॥ कुविकल्पैरिमैरेष कृतं हारितवान् निजम् । एकतानमनोभिस्तत् कार्य देवार्चनं बुधैः ।। ८०५ ॥ तथैकत्र पुरे धन्यो वणिपुत्रो निजापणे । उपविष्टो मुनि भिक्षामटन्तं वीक्ष्य हृष्टवान् ।। ८०६ ॥ आकार्य च घृतं दातुमुद्यतस्तस्य भाजने । - अखण्डधारया यच्छन्नुच्चैर्गतिमुपार्जयत् ॥ ८०७ ॥