________________
प्रथमः सर्गः ।
अभूद् विहरतस्तस्य प्रतिबन्धो महात्मनः ॥ ७८१ ।। तनुमूषांगतं चित्तशुल्वं शमरसेन सः । कल्याणीय क्षमौषध्या तपस्तापादमेलयत् ॥ ७८२ ॥ विविधाभिग्रही नित्यमचालीदथ सोऽन्यदा । सागरदत्तसार्थेशसार्थेनाष्टापदं प्रति ।। ७८३ ॥ मुनि सागरदत्तस्तं पप्रच्छ क नु यास्यथ ? । स ऊचे वन्दितुं देवान् यास्यामोऽष्टापदाऽचले ॥ ७८४ ॥ सार्थेशः पुनरमाक्षीत्के देवास्तत्र पर्वते ? । कारिताः केन कति ते फलं तद्वन्दने च किम् ? ॥७८५।। आसन्नभव्यं तं ज्ञात्वाऽरविन्दमुनिराख्यत । अर्हन्तो भद्र ! सत्याख्या देवा देवगुणान्विताः ॥७८६'! केऽर्हन्तस्ते वीतरागाः सर्वज्ञाः शक्रपूजिताः ? । धर्मदेशनया विश्वविश्वस्योत्तारकाश्च ये ।। ७८७ ॥ ऋषभस्त्वादिमस्त्वेषामिक्ष्वाकुकुलसम्भवः । आसीत् तीर्थकरस्तस्य सुतो भरतचक्रभृत् ॥ ७८८ ॥ आदिनाथस्य निर्वाणं गतस्याऽष्टापदाचले । चक्री च दिव्यमुत्तुङ्गं तत्र चैत्यमकारयत् ॥ ७८९ ॥ तस्मिंश्च वृषभादीनां चतुर्विंशतिमहताम् । प्रतिमाः स्वस्खमानेनास्थापयद् रत्ननिर्मिताः ॥ ७९० ॥ तद्वन्दनाफलं मुख्यं मोक्षोऽन्यच्चाऽऽनुषङ्गिकम् । नरेन्द्र स्वर्गसाम्राज्यपदलाभादिकं पुनः ॥ ७९१ ॥ पूजयन्ति च तान् भूरिभाग्या एव नरा भुवि । यतस्तत्पूजनाद् न स्युराधिदुर्गतिदुर्धियः ॥ ७९२ ॥ जिनानां बिम्बमप्यर्कप्रतिबिम्बमिव ध्रुवम् ।
चित्तादर्श स्थितं स्वच्छे हरत्यन्तस्तमो नृणाम् ॥ ७९३ ॥ .या- अनित्ये क्लेशदे नास्था महतां बाह्यभूषणे ।
१ सुवर्णावर्तनी पात्री मूषा । २ ताम्रम् । ३ सुवर्णायाऽपि।।