SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। प्रवर्धमानतत्पुण्यविघाताशङ्कया मुनिः । यावद् न विरतस्तावद् दातुरेवं मनस्यभूत् ॥ ८०८ ॥ अहो ! किमियतैकाकी घृतेनैष करिष्यति । यन्नाद्यापि विरमतीत्यपतत् परिणामतः ॥ ८०९ ॥ ततो येन क्रमेणैष देवलोकानुपाऽर्जयत् । तेनैव निपतस्तेन ज्ञानिना मुनिनोदितः ॥ ८१० ॥ इयदूर्ध्वमहो ! गत्वा मा पत मुग्ध ! मा पत । स ऊचे नन्विहास्म्येष किमसंबद्धमुच्यते ? ॥ ८११ ॥ अथर्षिः कथयामास श्रद्धादानस्य सत्फलम् । . महाद्भुतकरं सद्यो विकल्पस्य च दृषणम् ॥ ८१२ ॥ निर्विकल्पमतो दानं देयं साविकमुत्तमैः । लोकेऽपि शकुनः स्वमो विकल्पादुच्यतेऽफलः ॥ ८१३ ॥ अनेन भूषणेनात्मा सुभगंभावुको भवन् । स्पृहणीयतमः सिद्धिवध्वा अपि भवेद् ध्रुवम् ॥८१४॥ इत्यादिविविधां धर्मशिक्षां शृण्वन् निरन्तरम् अरविन्दस्य राजर्षेवेदनात् सार्थनायकः ॥ ८१५॥ मन्वानो गुरुसंयोगं कल्पद्रुप्राप्तिसंनिभम् । मिथ्यात्वं सर्वथा त्यक्त्वा श्रावकत्वं प्रपन्नवान् ॥ ८१६ ॥ नित्यं सागरदत्तोऽथ गच्छन् मार्गे क्रमेण ताम् । अटवीं प्राप यत्रास्ते मरुभूतिः करीश्वरः ॥ ८१७ ॥ कदलीगर्भसंकाशमृदुकल्लोलबाहुभिः। सुप्रसन्नतया गन्तूनालिङ्गितुमिवोधतम् ॥ ८१८ ॥ वातनदैर्धेमभृङ्गाऽऽरावहृयाम्बुजाननैः। आकारयदिवानम्य पान्थानातिथ्यहेतवे ।। ८१९ ॥ हंस-सारस-हारीत-चक्र-कादम्बकादिभिः । शब्दायमानै नेव गीयमानगुणोत्करम् ॥ ८२० ॥ १ पान्थान् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy